________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भू.
स०१
॥९॥
9
पश्येत्यादिसार्घश्लोकः । पुष्करैः पौः। आयुतां व्याप्ताम् । कारण्डवाः जलकाकाः । प्लवैः जलकुक्कुटैः । वराहेति । तीर इति शेषः ॥९८॥ अधिक मित्यर्धम् । विहङ्गमैः उक्तभिन्नः ॥९९॥ स्मृत्वा वर्तमानस्येति शेषः ॥१०॥ पुनस्त्वर्थः । विरहीकृतम् विरहिणमित्यर्थः । मृगीभिः सहितान् । मृगान् पश्य, वैदेह्या विरहीकृतं मां पुनः पश्येत्यन्वयः । एतेषु सकलत्रेषु सुखं सञ्चरत्सु ममैकस्याहो कष्टावस्थेति भावः ॥ १०१ ॥ रामानु -पुनः
पश्य शीतजलां चेमा सौमित्र पुष्करायुताम् । चक्रवाकानुचरितां कारण्डवनिषेविताम् । प्लवैः क्रौञ्चैश्च सम्पूर्णी वराहमृगसेविताम् ॥ ९८ ॥ अधिकं शोभते पम्पा विकूजद्भिर्विहङ्गमैः ॥ ९९ ॥ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः। श्यामा चन्द्रमुखी स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ १.०॥ पश्य सानुषु चित्रेषु मृगीभिः सहितान् मृगान् । मां पुनर्मूगशावाक्ष्या वैदेह्या विरहीकृतम् ॥ १०१ ॥ व्यथयन्तीव मे चित्तं सञ्चरन्तस्ततस्ततः। अस्मिन् सानुनि रम्ये हि मत्तद्विजगणायुते ॥ १०२ ॥ पश्येयं यदि तां कान्तां ततः स्वस्ति भवेन्मम ॥ १०३ ॥ जीवेयं खलु सौमित्रे मया सह सुमध्यमा । सेवते यदि वैदेही पम्पायाः पवनं सुखम् ॥ १०४॥ पद्मसौगन्धिकवहं शिवं शोकविनाशनम् । धन्या लक्ष्मण सेवन्ते पम्पोपवनमारुतम् ॥ १०५ ॥ शब्दोप्यर्थे । मामपि पश्येति सम्बन्धः ॥ १०१ ॥ व्यथयन्तीति । सञ्चरन्तः, मृगादय इति शेषः॥ १०२॥ पश्येयमित्यर्धम् । ततः तदा । स्वस्ति शुभम् | V॥१०३॥ जीवेयमिति स्पष्टम् ॥ १०४॥ पद्मकतारगन्धवहमिति लक्षणयार्थः। धन्याः सकान्ताः। पदप्रयोजनं त्वाचार्या ऊचुः । पद्मं च सौगन्धिक
च पद्मसौगन्धिके । ते वहति प्रापयतीति पद्मसौगन्धिकवहम् । अत्र पद्मसौगन्धिकयोर्वहनानुपपत्तेस्तद्द्वन्धो लक्ष्यते । लक्षणायाश्च प्रयोजनेन भवित व्यम् । यथा गङ्गायां घोष इत्यत्र पावनत्वादि । तथात्र प्रयोजनम् । यथा पद्मस्पैव प्राणसमीपानयनेपि उपरि स्थितः परिमलः शीतलो गृह्यते । नान्तः स्थित उष्णमिश्रः तथायं वायुरपि उपरिस्थशीतलपरिभलमादाय समागच्छतीत्यर्थः । यद्वा पद्मकेसरसंसृष्ट इत्यनुक्तेः पद्मसौगन्धिकोपरिवर्ति अन्येषु ब्रह्मलोकादिषु ॥ ९६-९९ ॥ दीपयन्तीति । प्रिया स्मृत्वा स्थितस्य मे काम द्रुमाः दीपयन्तीति सम्बन्धः ॥१०॥ पदयेति । पुनःशब्दोऽप्यर्थे । मामपि पश्येति सम्बन्धः ॥ १.१॥ व्यथयन्तीति । सञ्चरन्तः मृगा इति शेषः ॥ १०२-१०४ ॥ पझेति । पद्मसौगन्धिकवहं पद्मसौरभवहम् । धन्याः
-
S
-
-
-
-
For Private And Personal Use Only