________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
महासहाख्या गुल्माः। पूर्णकाः शाल्मलिभेदा वृक्षविशेषाः । पारिभद्रका निम्बाः । पाटलयः इकारान्त आर्षः। कोविदाराः युगपत्रकाख्या वृक्षाः। मुचुलिन्दाः नारङ्गवृक्षाः । अर्जुनाः ककुभवृक्षाः । केतकानि हेमवर्णपुष्पाणि इति पूर्वस्माद्विशेषः । उद्दालकाः श्लेष्मातकवृक्षाः। शिरीषाः कपीत. नाख्या वृक्षाः। शिशुपाः भस्मगर्भाख्या वृक्षाः। धवाः मधुराख्या वृक्षविशेषाः । कुरवकाः रक्तवर्णपुष्पा महासहाख्या गुल्माः । रक्तपदं विस्पष्टार्थम् ।।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः। मुचुलिन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु ॥ ८१॥ केतकोदालकाश्चैव शिरीषाः शिंशुपा धवाः । शाल्मल्यः किंशुकाश्चैव रक्ताः कुरखकास्तथा । तिनिशा नक्तमालाश्च चन्दनाः स्पन्दना स्तथा ॥ ८२ ॥ पुष्पितान पुष्पिताग्राभिलताभिः परिवेष्टितान् । द्रुमान् पश्येह सौमित्र पम्पाया रुचिरान् बहून् ॥ ८३ ॥ वातविक्षिप्तविटपान् यथासन्नान दुमानिमान । लताः समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥ ८ ॥ पादपात्पादपं गच्छन् शैलाच्छैलं वनादनम् । वाति नैकरसास्वादः सम्मोदित इवानिलः ॥ ८५॥ केचित्पर्याप्त
कुसुमाः पादपा मधुगन्धिनः । केचिन्मुकुलसंवीताः श्यामवर्णा इवावभुः॥ ८६ ॥ प्रतिनिशाः नमिद्रुमाः । नक्तमालाः चिरिबिल्वभेदाः । चन्दनाः प्रसिद्धाः । स्पन्दनाः वृक्षविशेषाः ॥ ७६-८२ ॥ पुष्पितानिति । पम्पायाः सम्बन्धिन इति शेषः ॥ ८३ ॥ वातविक्षिप्तविटपान वायुविधूतशाखानिति तात्कालिककान्तिविशेषोक्तिः । यथास पण संस्प्रष्टुं शक्यते तथा आसत्रान् । समीपवर्तिन इत्यर्थः । इयता ग्रन्थेन विषयान्तरप्रवणाः प्राकृताः उक्ताः ॥८॥ पादपात्पादपमिति । । कच्छमित्यपि ज्ञेयम् । नैकरसास्वादः अनेकमधुरसकवलनेन । संमोदितः सञ्जातसंमोद इव ॥ ८५ ॥ केचिदिति । पर्याप्तकुसुमा इत्यनेन मुकुलाल्पत्वम् । मुकुलसंवीता मुकुलैः समन्तात् वेष्टिता इत्यनेन विकसितपुष्पस्वल्पत्वं चावगम्यते। श्यामवर्णाः वृन्तवर्णेनेति भावः। आबभुः आभान्ति । लडथें लिट् ॥ ८६ ॥ पादपात्पादपमिति । नैकरसास्वादसंमोदित इव अनेकरसास्वादनेन जातसंमोद इव ॥४५॥ केचिदिति । पर्याप्तकुसुमा मुकुलसंघीताः । एतत्पुष्पमुकुलप्राचुर्याभिप्राये
For Private And Personal Use Only