SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir वा.रा.भ. कारैर्व्याख्यातोयं श्लोकः ॥ ७२ ॥ अथ विरजाया अर्वाक्प्रदेशवर्तिनां राजसतामससात्त्विकभेदभिन्नानां चेतनानां स्वरूप स्वकटाक्षविषयभूतं दर्शाटी.कि.का. यति-सौमित्र इत्यादिना । दक्षिण इत्यनेन पम्पादक्षिणतीरं क्रमेण प्रविष्ट इत्यवगम्यते । अनेन कर्णिकारवर्णनेन सत्यलोकादिषु जृम्भमाणा राजसी स.१ वृत्तिरुच्यते । यष्टिं लताम् ॥ ७३ ॥ अधिकमिति । अनेन ऋश्यमूकसमीपगमनं द्योतितम् । रजोवर्धकलोक उक्तः ॥ ७४॥ प्रदीप्ताः ज्वलिताः । ॥ ७५ ॥ पम्पेत्यादिसाधसप्तश्लोकाः । इमे उपशोभन्त इत्यन्वयः। तदुपरि दृश्यन्त इत्यन्वयः । संसक्ताः अविरलाः । मधुमन्धिन इति सर्वविशेषणम्।। सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि । पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ ७३ ॥ अधिकं शैल राजोऽयं धातुभिः सुविभूषितः। विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥७॥ गिरिप्रस्थास्तु सौमित्रे सर्वतः सम्प्र पुष्पितैः। निष्पन्त्रैः सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः॥७९॥ पम्पातीररुहाश्चमे संसक्ता मधुगन्धिनः। मालती मल्लिकाषण्डाः करवीराश्च पुष्पिताः ॥७६॥ केतक्यः सिन्धुवाराश्च वासन्त्यश्च सुपुष्पिताः । माधव्यो गन्ध पूर्णाश्च कुन्दगुल्माश्च सर्वशः॥७७ ॥ चिरिबिल्वा मधूकाश्च वञ्चुला वकुलास्तथा । चम्पकास्तिलकाश्चैव नाग वृक्षाः सुपुष्पिताः ॥ ७८॥ नीपाश्च वरणाश्चैव खजूराश्च सुपुष्पिताः ॥ ७९ ॥ पद्मकाश्चोपशोभन्ते नीलाशोकाश्च पुष्पिताः ॥ ७९ ॥ लोध्राश्च गिरिष्टष्ठेषु सिंहकेसरपिञ्जराः । अकोलाश्च कुरण्टाश्च पूर्णकाः पारिभद्रकाः ॥८॥ लिङ्गवचनविपरिणामः कार्यः । एवं पुष्पितपदमपि । पम्पातीररुहा इमे मालत्यादयः पदार्था उपशोभन्ते इत्येकोन्वयः । मालती जातिः । मल्लिका पण्डाः मल्लिकासमूहाः। करवीराः प्रसिद्धाः। सिन्धुवाराः निर्गुण्ड्यः । वासन्त्यः पीतवर्णपुष्पाः लताः। “अत्र पीतायां वासन्ती हेमपुष्पिका" इति । वैजयन्ती। माधव्यः अतिमुक्तलताः । गन्धेन पूर्णाः गन्धपूर्णाः । कुन्दानां गुल्माः कक्षाः कुन्दगुल्माः। चिरिबिल्वाः नक्तमालाः। मधूकाः मधुद्रुमाख्या M॥७॥ वृक्षाः । वञ्चलाः वेतसाः । वकुलाः प्रसिद्धाः । तिलकाः क्षुरकाः । नागवृक्षाः नागकेसराः। नीपाः जलकदम्बाः । वरणाः वरणवृक्षाः । खजूराः प्रसिद्धाः। पद्मकाः पद्मपाख्या वृक्षविशेषाः । लोधाः शाबरवृक्षाः। सिंहकेसरपिञ्जराः सिंहकेसरवर्णा इत्यर्थः । अकोलाः निकोचकाः । कुरण्टाः पीतवर्णपुष्पाः For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy