________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
एव श्रमापनयनः । अनेन "सर्वगन्धः सर्वरसः" इत्युक्तस्य भगवतो भक्तेषु सान्निध्यमुक्तम् ॥१७॥ रामानु० - पूर्वश्लोके विक्षिपतेति पठितं वायोस्तीव्रगतित्वं निवार यति स एष इति । अचक्षुर्विषये त्वनिले एष इति निर्देशस्तदानी तनानासान्द्रपर गदशैनात् ॥ १७ ॥ अमी इति । अनेन भगवदनुभवबलात्कारेण "एतत्साम गायन्नास्ते” इत्युक्तसामगानरसिका उच्यन्ते ॥ १८ ॥ गिरिप्रस्थेषु निजप्रस्थेष्वित्यर्थः । तदुत्पन्नैर्दुमैः । संसक्तशिखराः परस्परसंश्लिष्टायाः । शैला भान्ति महान्तः अमीपवनिक्षिप्ता विनदन्तीव पादपाः । षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु ॥ १८ ॥ गिरिप्रस्थेषु रम्येषु पुष्प वद्भिर्मनोरमैः । संसक्तशिखराः शैला विराजन्ते महाद्रुमैः ॥ १९ ॥ पुष्पसञ्छन्नशिखरा मारुतोत्क्षेपचञ्चलाः । अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ २० ॥ पुष्पिताग्रांस्तु पश्येमान् कर्णिकारान् समन्ततः । हाटकप्रतिसंछन्ना न्नरान्पीताम्बरानिव ॥ २१ ॥ अयं वसन्तः सौमित्रे नानाविहगनादितः । सीतया विप्रहीणस्य शोकसन्दीपनो मम ॥ २२ ॥ मां हि शोकसमाक्रान्तं सन्तापयति मन्मथः । हृष्टः प्रवदमानश्च मामाह्वयति कोकिलः ॥ २३ ॥ पुष्पराशय इव भान्तीत्यर्थः । अनेन सर्वेषां ज्ञानिनामेककण्ठत्वमुक्तम् ॥१९॥ रामानु० - गिरिप्रस्थेध्विति । अत्राविवक्षितसम्बन्नमस्थेष्वित्यर्थः । तत्रोत्पन्नैर्महाद्रुमैः संसक्त शिखरा इति सम्बन्धः । अनेन द्रुमाणामन्नित्यं सूचितम् ॥ १९ ॥ मधुकरा एव उत्तंसाः शिखराणि येषां ते । “पुंस्युत्तंसावतंसौ द्वौ कर्णपूरेपि शेखरे " इत्यमरः । पुष्पावृतशिखोपरि नीलोष्णीषधारिणः । सगीतिकं नृत्यन्त इव भान्तीत्यर्थः । अनेन भगवद्भक्त्या नर्तनपरा गम्यन्ते ॥२०॥ पुष्पिताग्रान् पुष्पितोपरि प्रदेशान् । अत एव हाटकसंछन्नान् पीताम्बरांश्च नरानिव पश्य । पुष्पिताग्राः कर्णिकाराः सुवर्णवस्त्राभरणवन्त इव भान्तीत्यर्थः । अनेन भगवत्सारूप्यं ॥ गता उच्यन्ते ॥ २१ ॥ एवं मद्भक्तेषु सर्वेषु मदनुभवतृप्तेषु बद्धा मां दुःखीकुर्वन्तीत्याह-अयमिति । इदानीं वसन्तवर्णनेन नगरनिर्गममारभ्य त्रयोदश वत्सरा गता इति गम्यते ॥ २२ ॥ एवं वासन्तपुष्पसमृद्धिं वर्णयित्वा तथैवोद्दीपनभूतपक्षिरवानाह मामित्यादिना । पूर्वार्द्ध स्पष्टम् । मां अमी इति । षट्पदैरनुकूजन्तः विनदन्तीवेति सम्बन्धः ॥ १८ ॥ प्रस्तरेषु च रम्येषु इति पाठः । प्रस्तरेषु पुष्पवद्भिः दुमैः संसक्तशिखराः शैलाः विराजन्त इति सम्बन्धः ॥ १९ ॥ पुष्पेति । पुष्पसंछन्नशिखराः पुष्पालंकृत शाखाः । मारुतोत्क्षेपचञ्चलाः वायुचलनेन चलनवन्तः । मधुकरोत्तंसाः मधुकरावतंसाः । अभी पादपाः प्रगीता इव गातुमुपक्रान्ता इवेति सम्बन्धः । गातुमुपक्रान्तसालङ्कारविलासपुरुषा इव स्थिता इत्यर्थः । मधुकरोत्क्रोशाः इति वा पाठः ॥ २० ॥ टी०-हाटकप्रति सञ्छन्नाः अत्र हाटकशब्देन तन्मयान्याभरणानि ॥ २१-२२ ॥
For Private And Personal Use Only
LA