SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir मानः। यमसादनं नानयत् मृतिं न प्रापितवान् । कुत इत्यत्राह पितामहेति । तत् पूर्वोक्तं दीर्घायुर्विषयकं पितामहवचः सत्यमस्त्विति मम मह्यम् अत्र वीत् न त्वां मारयामीत्यत्रवीदित्यर्थः ॥ ११॥ अनाहार इत्यादिश्लोकद्वयमेकान्वयम् । अनाहारः सन् सुदीपें कालं कथं जीवितुं शक्तः भग्नसक्थिान अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः । वजेणाभिहतः कालं सुदीर्घमपि जीवितुम् ॥ १२ ॥ एवमुक्तस्तु मे शको बाहू योजनमायतौ । प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३॥ सोहं भुजाभ्यां दीर्घाभ्यां संकृष्यास्मिन्वनेचरान् । सिंहद्विपमृगव्याघ्रान भक्षयामि समन्ततः ॥ १४ ॥ स तु मामबवादिन्द्रो यदा रामः सलक्ष्मणः । छेत्स्यते समरे वाहू तदा स्वर्ग गमिष्यसि ॥ १५॥ अनेन वपुषा राम बनेस्मिन् राजसत्तम । यद्यत्पश्यामि सर्वस्य ग्रहणं साधु रोचये ॥१६॥ अवश्यं ग्रहणं रामो मन्येऽहं समुपैष्यति । इमां बुद्धिं पुरस्कृत्य देहन्यासकृतश्रमः ॥ १७॥ स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव । शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा ॥ १८॥ अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ । मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोग्निना ॥ १९ ॥ शिरोमुखत्वमनाहारत्वे हेतुः। बाहू प्रादात् आस्यमकल्पयत् ॥ १२॥ १३॥ सोहमिति । संकृष्य आकृष्य ॥ १४ ॥स मामित्यनेन बलात्कारो लक्ष्यते । ॥१५॥ अनेनेति । अनेन वपुषा उपलक्षितोऽहं यद्यत्पश्यामि तस्य ग्रहणं रोचये न त्वभक्ष्यबुद्ध्या किञ्चित्त्यजामीत्यर्थः ॥ १६॥ महर्षिवाक्यविश्वा सात् अवश्यं रामो ग्रहणं समुपैष्यतीति मन्ये । इमां बुद्धिं पुरस्कृत्य देहन्यासे कृतश्रमो भवामि विकृतदेहत्यागे कृतोद्योगो भवामि। देहत्यागे कृतबुद्धि तया रामोऽवश्यं ग्रहणमुपैष्यतीति सर्वग्रहणं रोचय इति भावः ॥१७॥ रामत्वे युक्तिमाह-नाहमिति । एवं यथार्थमेव महर्षिणोक्तम् ॥१८॥ मतिसाचिव्यं । जिणा त्वयाऽभिहितः जीवितुं कथं शक्त इत्यन्वयः ॥ १२ ॥ एवमुक्तः अनाहारस्याक्रियस्य कथं जीवनमित्युक्तः ॥ १३ ॥ वनेचरान् बने सञ्चारवतः ॥१५-१६॥ अवश्यमिति । देहन्यासकृतश्रमः विकृतदेहत्यागे कृतोद्योगः। अवश्यं रामग्रहणं समुपेष्यतीत्यहं मन्य इति बुद्धिं पुरस्कृत्य सर्वस्य ग्रहणं साधु रोचय इति पूर्वेण सम्बन्धः ॥ १७ ॥ १८ ॥ सर्वदा दाहोत्तरं बुद्धिसाहाय्यं करिष्यामि मित्र चोपवेक्ष्यामि ॥ १९ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy