SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ कबन्धस्य बाहच्छेदेन पूर्वजन्मस्मृतिरुच्यते सप्ततितमे-तो त्वित्यादि । परिक्षितौ परिवेष्टितौ ॥१॥ तिष्ठत इति । क्षुधात मां दृष्ट्वा भीती किंनु । तिष्ठतः व्यर्थमेव न तु जीवितापत्परिहार इत्यर्थः। यतो गतचेतसौ युवां मे देवेनाहारार्थ सन्दिशौ ॥२॥ तच्छ्रुत्वति । कृतलक्षणः कृतोद्योगः ॥३॥ त्वां चेति । पुरा आदत्ते आदास्यतीत्यर्थः ॥ ४॥ भीषण इति । भुजयोरेव विक्रमो यस्य स तथा । लोकं जनम् । अतिजितम् अत्यन्तजितम् ॥५॥ तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ॥ १ ॥ तिष्ठतः किन्नु मां दृष्ट्वा क्षुधात क्षत्रियर्षभौ। आहारार्थ तु सन्दिष्टौ दैवेन गतचेतसौ ॥ २॥ तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचाति समापन्नो विक्रमे कृतलक्षणः॥३॥ त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः । तस्मा दसिभ्यामस्याशु बाहू छिन्दावहै गुरू॥ ४॥ भीषणोऽयं महाकायो राक्षसो भुजविक्रमः । लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ॥५॥ निश्चेष्टानां वधो राजन् कुत्सितोजगतीपतेः। क्रतुमध्योपनीतानां पशूनामिव राघव ॥६॥ भुजच्छेदनमात्र कर्तव्यं न तु मारणमित्याह-निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशक्तानाम् । जगतीपतेः क्षत्रियस्य । ऋतुमध्योपनीतानां निश्चे टानामित्यस्मिन्नर्थे प्रयुक्तम् । “पर्यग्निकृतानारण्याजुत्सृजन्त्यहिंसायै " इत्युक्तरीत्या अश्वमेधकतावुपनीतानामारण्यपशूनां वधः कुत्सित एव ॥६॥ तो तु तत्रेत्यादि । बाहुपाशपरिक्षिप्तो बाहुपाशावृतौ ॥ १॥ क्षुधार्तस्य मम देवेन आहारार्थ सन्दिष्टौ अतः किन्नु तिष्ठत इति तावब्रवीदिति पूर्वेण सम्बन्धः । वस्तुतस्तु-तिष्ठत इति । हे क्षत्रियर्षभौ युवा देवेन आहारार्थ सिन्दिष्टो किम्, ममेति शेषः । गतचेतसो किं तादृशौ न भवतः । अतः क्षुधात मा दृष्टा किं तिष्ठतः गच्छतमिति शेषः । इत्यबबीदिति पूर्वेण सम्बन्धः॥२॥ तदिति । उवाच राममिति शेषः । प्राप्तकालं युक्तम् । विक्रमे कृतलक्षणः आहितलक्षण, पराक्रमसम्पन्न इति यावत् । “गणेः प्रतीते तु कृतलक्षणो" इत्यमरः ॥३॥ त्वामिति । पुरा आदने आदास्यतीत्यर्थः ॥ ४॥ भीषण इति । भुजविक्रमः भुजयोर्षिक्रमो यस्य सः। भीषण इति पादपूरणार्थे अप्यर्थे चात्र हिशब्दौ । लोकमतिजितमत्यन्तपराजितं कृत्वा तद्वदावामपि इन्तुमिच्छति । अतोस्य बाह छिन्दावहै इति पूर्वेण सम्बन्धः ॥५॥ अस्य हननमेव युक्तमित्याकांक्षायामाह-निश्चेष्टानामिति । निश्चेष्टानाम् अकृतविक्रमाणां वधः कुत्सितः अयुक्त इत्यर्थः । ऋतुमध्योपनीताना ऋतुमध्यादन्यत्र नीताना, क्रतुबाह्यानाम, क्रत्वनङ्गभूतानामिति यावत् । वध इवेति ॥६॥ सकतुमध्योपनीतानां पशूनां वधः कलिकाले प्रायस्तद्विधानाचत्वात् लोकानां यथा कुत्सितः पिष्टपोरेव हिंस्यत्वेन भारतायुक्तेः । अथवा ऋतुमध्ये तदननाक्लप्तदिने ॥६॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy