________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥१६६॥
www.kobatirth.org
मुक्त्वा विशेषतो दर्शनमाह द्वाभ्याम् भयदामित्यादि ॥ १२ ॥ १३ ॥ सेति । रंस्यावद्देत्युक्त्वेत्यत्र सन्धिरार्षः । समालम्बत हस्ते गृहीतवती ॥१४॥ उवाचेत्यर्द्धम् । उपगुह्य आलिङ्ग्य || १५ || अहमित्यादिसार्धश्लोकः । अयोमुखीत्यन्वर्थनामा । हयमुखीत्यपि पाठः । ते लाभः लाभभूता । त्वमपि मम प्रियोसि । नाथेति । आयुःशेषमित्यत्यन्तसंयोगे द्वितीया ॥ १६ ॥ एवमिति । कर्णनासावित्यत्र एकवद्भावाभाव आर्षः । नानाशब्दस्य पुंलिङ्गता
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् । प्रेक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ १३ ॥ सा समा साद्य तौ वीरौ त्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ॥ १४ ॥ उवाच चैनं वचनं सौमित्रिमुपगुह्य सा ॥ १५॥ अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः । नाथ पर्वतकूटेषु नदीनां पुलिनेषु च । आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ॥ १६ ॥ एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः । कर्णनासो स्तनो चास्या निचकर्तारिसूदनः ॥ १७ ॥ कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च । यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥ १८ ॥ तस्यां गतायां गहनं विशन्तौ वनमोजसा । आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ १९ ॥ लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः । अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ २० ॥ स्पन्दते मे दृढं बाहु रुद्विग्नमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ २१ ॥
Acharya Shri Kailassagarsun Gyanmandir
चार्षी ॥ १७ ॥ कर्णेति । एकवद्भावे सप्तमी ॥ १८ ॥ तस्यामिति । गहनं दुष्प्रवेशं वनं विशन्तौ वनमध्यं गच्छन्तौ आसेदतुः, वक्ष्यमाणनिमित्ता नीति शेषः ॥ १९ ॥ लक्ष्मणस्त्विति । महातेजा इत्यदीनतोक्तिः । सत्त्ववान् निर्मलमनस्कः शीलवान् सद्वृत्तवान् शुचिः कायशुद्धियुक्तः एभिर्विशेषणै तृभक्तिरुक्ता ॥ २० ॥ स्पन्दत इति । बाहुः वाम इति शेषः । उद्वि कम्पितम् । अनिष्टानि अनिष्टसूचकानि ॥ २१ ॥
विश्वः । परुषा कर्कशा त्वक् यस्यास्तां परुषत्वचम् । परुषस्वनामिति वा पाठः । विकटाम् अतिस्थूलाकाराम् ॥ १२ ॥ १३ ॥ समालम्बत गृहीतवती ॥ १४ उवाचेति । ते त्वया लब्धा । लाभस्ते त्वमसि मियः इति च कचित्पाठः ॥ १५ ॥ नाथेति । आयुश्चिरं चिरमायुः ॥ १६ ॥ एवमिति । कर्णनासस्तनमिति प्राण्यङ्ग त्वादेकवद्भावः ॥ १७ ॥ १८ ॥ तस्यामिति । गहनं दुष्प्रवेशम् ॥ १९ ॥ २० ॥ स्पन्दत इति । बाहुः, वाम इति शेषः । अनिष्टानि अशुभसूचकानि ॥ २१ ॥
For Private And Personal Use Only
टी.आ.कां. स० ६९