________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
भूतौ वा । लिङ्गव्यत्ययश्छान्दसः । यत्र ययोः सर्वं जगत् प्रतिष्ठितं यदधीनस्वरूपस्थितिप्रवृत्तिकाः सर्वे जना इत्यर्थः । सूर्यस्य वर्षहेतुत्वात् चन्द्रस्यौ पधिहेतुत्वाचेति भावः । “आदित्याज्जायते वृष्टिस्ततोऽन्नमभिजायते।" इति वचनात् । ग्रहणं राहुकेतुभ्यां ग्रासम् ॥ १०॥ किंबहुना सङ्घहेणोच्यत इत्याह-सुमहान्तीति । सुमहान्ति भूतानि मान्धातॄनलप्रभृतिमहाजना अपि । सर्वभूतादिदेहिनः सर्वभूतानि आदिदेहोऽस्यास्तीति तथा सर्वभूतान्तयां मिण इत्यर्थः । देवस्य परमात्मनः । पञ्चम्यर्थे षष्ठी । न प्रमुञ्चन्ति सर्वेपि तत्सङ्कल्पं नातिकामन्तीत्यर्थः ॥ ११ ॥ उपसंहरति-शकादिष्वपीति । नया
सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ। न दैवस्य प्रमुश्चन्ति सर्वभूतादिदेहिनः॥११॥शकादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयते नरशार्दूल न त्वं शोचितुमर्हसि ॥ १२॥ नष्टायामपि वैदेह्यां हृतायामपि चानघ । शोचितुं नार्हसे वीर यथाऽन्यः प्राकृतस्तथा ॥ १३॥ त्वद्विधा न हि शोचन्ति सततं सत्यदर्शिनः । सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥ १४ ॥ तत्त्वतो हि नरश्रेष्ठ बुद्धया समनुचिन्तय । बुद्धया युक्ता महाप्राज्ञा विजानन्ति
शुभाशुभे ॥१५॥ अदृष्टगुणदोषाणामधूतानां च कर्मणाम् । नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते ॥ १६ ॥ नयौ तन्मूलसुखदुःखे अतो न त्वं शोचितुमर्हसीत्यर्थः ॥१२॥ उक्तं विवृणोति-नष्टायामपीति । नाईसे नाईसि ॥ १३ ॥ सत्यदर्शिनः यथार्थदर्शिनः ।। कृच्छेषु दुःखेषु । अनिविण्णम् अविनाशि दर्शनं कृत्याकृत्यविवेको येषां ते तथा ॥ १४॥ तत्त्वतो बुद्ध्या अबाधितबुदया समनुचिन्तय, शुभाशुभे इति शेषः। महाप्राज्ञाः बुद्ध्या तात्कालिक्या युक्ताः सन्तःशुभाशुभे भाविनी विजानन्ति ॥ १५॥ इदानी फलानुभवः पूर्वकर्मसाध्यः अतस्तत्रन शोचनीयमित्याह-अदृष्टेति । अदृष्टगुणदोषाणां प्रत्यक्षतो द्रष्टुमशक्यसुखदुःखरूपगुणदोषाणाम् । अधृतानां पुरा एवं कर्म कृतमिति निश्चेतुमशक्यानाम् तेषां प्रसिद्धानां पूर्वकृतानामित्यर्थः । कर्मणाम् इष्टं फलं क्रियाम् अनुष्ठानमन्तरेण न प्रवर्तते । पूर्वकर्मानुष्ठानं विना इदानीं फलं नोत्पद्यते अतः पूर्वकर्म न देवस्य प्रमुश्चन्ति सर्वभूतादिदेहिनो देवस्य सर्वेश्वरस्य वशं न प्रमुश्चन्ति नातिकामन्ति ॥ ११ ॥ नयानयो तन्मूलार्थानौं ॥ १२ ॥ १३ ॥ त्वद्विधा इति । अनिविण्णदर्शनाः विषादरहितान्तस्करणा इत्यर्थः ॥ १४ ॥ यतः बुद्धया सूक्ष्मबुद्धया युक्ता जना इत्यर्थः । शुभाशुभे जानन्ति अतस्त्वमपि बुद्धचा तत्वतःगए। इदं दुःखं कथं मया प्राप्तमिति समनुचिन्तयेति सम्बन्धः । शुभाशुभे पुण्यपापे ॥१५॥ लोके सर्वेषामपि कर्मफलमवश्यम्भावीत्याह-अदृष्टेति । अदृष्टगुणदोषाणाम् |
For Private And Personal Use Only