________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
| एवं जगदुपसंहारकोधकलुषं रामं लक्ष्मणः सन्धुक्ष (सान्त्व) यति पञ्चषष्टितमे । तप्यमानमित्यादिश्लोकत्रयमेकान्वयम्। तप्यमानं तपन्तम् । तथा तप्य | मानमित्यनेन पूर्वोक्तजगदुपसंहारवाचस्तप्तत्वकृताः नतु सङ्कल्पपूर्वा इत्युच्यते । रामं दृष्ट्वा राममत्रवीदिति क्रियाभेदान्न पुनरुक्तिदोषः । अभवे विनाशे । युक्तम् उद्युक्तम्। संवर्तकं संहारकम् । अदृष्टपूर्वमिति क्रोधन क्रियाविशेषणम् । परिशुष्यता लोकविनाशभयेनेति भावः ॥ १-३ ॥ पुरेति । क्रोधवशमापन्नः · तप्यमानं तथा रामं सीताहरणकर्शितम् । लोकानामभवे युक्तं संवर्तकमिवानलम् ॥ १ ॥ वीक्षमाणं धनुः सज्यं निःश्वसन्तं पुनः पुनः । दग्धुकामं जगत्सर्वं युगान्ते तु यथा हरम् ॥ २ ॥ अदृष्टपूर्व संक्रुद्धं दृष्ट्वा रामंं तु लक्ष्मणः । अब्रवीत् प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता ॥ ३ ॥ पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः । न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि ॥ ४ ॥ चन्द्रे लक्ष्मीः प्रभा सुय गतिर्वायौ भुवि क्षमा । एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः ॥ ५ ॥ एकस्य नापराधेन लोकान् हन्तुं त्वमर्हसि । न तु जानामि कस्यायं भन्नः साङ्ग्रामिको रथः । केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ॥ ६ ॥
सन् प्रकृतिं मृदुत्वादिनिजस्वभावं न हातुमर्हसि || ४ || चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम् त्वयि तु एतत्सर्वं च यशश्च प्रतिनियतमित्यर्थः॥ ५ ॥ तनि०-अत्र यशःशब्देन " न तस्पेशे कश्चन तस्य नाम महद्यशः " इत्याद्युक्तनिस्सीमाभ्यधिकत्वादिगुणाः प्रतिनियता इत्युपलक्ष्यन्ते ॥ ५ ॥ मम दान्त तयैवैतादृशी दशा जाता अधुनाऽपि यदि क्रोधो न स्यात् को वा मम वित्रस्येत् कथं च सीताप्राप्तिरित्याशङ्कयाह-एकस्येति । अर्धत्रयमेकान्वयम् । अयं भावः - एको तप्यमानमित्यादि । तप्यमानं तपन्तं रामं दृष्ट्वा राममब्रवीदिति रामशब्दद्वयस्य सम्बन्धः अभवे नाशे युक्तमुद्युक्तम् । सांवर्तकमिति पाठः । सविर्तकं प्रलय कालीनम् । मुखेन परिशुष्यतेति लोकविनाशभयेनेति भावः ॥ १-३ ॥ पुरेति । प्रकृतिं सर्वभूतहितत्वरूपम् ॥४॥ चन्द्र इति । लक्ष्म्यादिकमेकैकस्य प्रतिनियतम् त्वयि एतच सर्व यशश्च प्रतिनियतमित्यर्थः ॥ ५ ॥ अस्तु प्रकृते किमायातम् अत आह-एकस्येति । नन्वेकस्यापराध इति कथं ज्ञायते ? अत आह-नत्विति न जानाम्येवेत्यर्थः । यद्यप्येक इति विशेषतो न जानामि तथापि भग्नो रथस्त्वेक इति कृत्वा अयमेक एवास्माकम् अपराधीति जानामीति भावः ॥ ६ ॥
स०-अदृष्टपूर्वमिति विशेष्पेण स्वरसान्यपि सत् विशेषणीभूते कोऽन्वेति । तादृष्टपूर्वकोधमन्यमित्यर्यः ॥ ३ ॥
११६
For Private And Personal Use Only