________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.म.
१५६
ययेत्यादिः सार्धश्लोकः । विधिः अब जरादयो यथा न प्रतिइन्वन्ते तथाहं न निवार्यः अन्ये यथाशब्दाः पादपूरणार्थाः। यद्वा बहुवचनमविवक्षितम् 10 टी.आ.को प्रतिहन्यत इति प्रत्येकमन्वयः ॥७५ ॥ तनि०-अनेन अप्रतिहतसङ्कल्पत्वं परैरनभिभवनीयत्वं च कथितम् । अत्र यथेति पदावृत्या न प्रतिहन्यन्त इत्यप्रतिक्रिया स्वरूपावृत्तिः। दीपकालङ्कारः ॥ ७५ ॥ पुरेव मे चारुदती मायामृगं प्रति गमनात् पूर्व कान्तं मां प्रति इमं मृगं गृहीत्वा मह्यं देहीति हर्षेण यत् स्मिता
सन्धाय धनुपि श्रीमान रामः परपुरञ्जयः।युगान्ताग्निरिव ऋद्ध इदं वचनमब्रवीत् ॥७४॥ यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेष लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योस्मि सर्वथा ॥ ७९ ॥ पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम । सदेवगन्धर्वमनुप्यपन्नगं जगत् सशैल परिवत
याम्यहम् ॥७६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुःषष्टितमः सर्गः ॥ ६४॥ कृतवती तेन सहैव न दास्यन्ति चेत् अनिन्दितां तामलब्ध्वा जगदुपसंहारं करिष्यामि चेदपि इदं निन्दितमिति न केपि वक्ष्यन्तीति भावः । वक्ष्यते । हि-"यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् । अस्या हेतोर्विशालाक्ष्या युक्तमित्येव मे मतिः ॥” इति सर्वज्ञेन हनुमता । चारुदतीमित्यत्र “छन्दसि" इति सूत्रेण दन्तशब्दस्य वादेशः । “अग्रान्त-" इति सूत्रस्थचकारेण वादत्रादेशः। सीताम् अयोनिजतया मत्तोप्पतिशायिताम् । मैथिली वीरश्रेष्ठ जनकचकवर्तिपुत्रीत्वेन मत्सदृशीम् । सदेवेत्यादि । सर्वलोकस्य सम्भूतमरणमेव करिष्यामीति भावः । परिवर्तयामि नाशयामि अन्यथाकरिष्यामीति वा।अस्मिन् सगै सार्धपञ्चसप्ततिश्लोकाः॥७६॥ इति श्रीगोविन्द श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुःपष्टितमः सर्गः॥६॥ विधिः दैवम् । न प्रतिहन्यन्ते न निवार्यन्ते ॥ ७५ ॥ पुरेति । परिवर्तयामि नाशयामि ॥ ७६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्याया मारण्यकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥
ति-नन्वेवंविधः कोपः कथमस्य किमर्थ चेति चेतृणु मनुष्यदेहधारणेन तद्यवहारनटनमेवैतत् । किश ईडशदुःखकालेऽस्य कोधामा रावणो मनुष्यबुद्धिं कुर्यात् तथा च तयोऽशक्पः स्यादित्येतदर्थ च सः ॥१५६॥ मृत्यु मरणधर्मेण योजयामीत्यादि बचोपि रावणवचोपदेश, भारोपितको भूलकत्वात, अतएव शरैविधमिधामीत्युक्तिः । लक्ष्मणस्तु तबज्ञोपि तदेवातचन्न सम्मायामोहितो वा प्रलयकालिकरीनशक्त्याचेश सम्माग्यानुनयति स्म ॥ ६ ॥
For Private And Personal Use Only