________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
एवञ्च मम राक्षसैः सह इदं वैरं शतगुणं सत्तेषां जीवितमन्तयति विनाशयतीति जीवितान्तकं सम्पन्नं पश्य । एतावत्पर्यन्तं राक्षसैस्तीत्रवैराकरणात्तदपू राधः सोढः संप्रति तान् समूलं नाशयिष्यामीति भावः ॥ ५२ ॥ मृता मारिता ॥ ५३ ॥ अस्यामवस्थायामरक्षकत्वाद्धर्मेपि रोषो जात इत्याह-न धर्म इति । इदमर्धमेकम् ॥ ५४ ॥ न केवलं धर्मे तत्फलप्रददेवेषु च रोषो जात इत्याह-भक्षितायामिति । के वा ईश्वराः मम अप्रियं कर्तुं शक्ता इत्यन्वयः । सुघोर हृदयैः सौम्य राक्षसैः कामरूपिभिः । हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ ९३ ॥ न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ५४ ॥ भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण । के हि लोकेऽप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ५५ ॥ कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन सर्वभूतानि लक्ष्मण ॥ ५६ ॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निवर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ ५७ ॥ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ ५८ ॥
आद्यो हिः पादपूरणे, द्वितीयः प्रसिद्धौ ॥ ५५ ॥ तदानीं कथमप्रियं तैः कृतमित्यत्राह - कर्तारमिति । लोकानां कर्तारमपि शूरमपि संहार करणसमर्थ ॐ मपि । करुणवेदिनं कारुण्यपरं पुरुषं सर्वभूतानि अज्ञानादवमन्येरन् नाद्रियेरन् । लोकस्वभावोयमिति भावः ।। ५६ ।। तनिः अत्र लोकानां कर्तार ७ मिति जगत्सृष्टिकर्तृत्वम्, शूरमिति संहारकरणसामर्थ्य च व्यज्यते ॥ ५६ ॥ विशिष्य गर्विता देवाः मां नाद्रियेरन्नित्याह-मृदुमिति । लोकहिते युक्तं सक्तम्, अत एव मृदु कोमलहृदयम्, अत एव करुणवेदिनम् दान्तं विषयचापलरहितं मां निर्वार्य मन्यन्ते । अज्ञत्वाविशेषादिति भावः ॥ ५७ ॥ मामिति । गुणः स्यान्तं करोतीति तथा रक्षसामेवेति शेषः । शतगुणमत्यन्तं मम वैरमासीत पश्येति सम्बन्धः ॥ ५२ ॥ वैरहेतुमाह सुघोरहृदयैरिति । अतो वरं पश्येति पूर्वेण सम्बन्धः । मम वैरं पश्येत्याग्रहोक्तिः ॥ ५३ ॥ " आपत्सु रक्षको धर्मः " इति न्यायोस्ति सोप्यस्मिन्नवसरे नास्तीत्याह-न धर्म इति ॥ ५४ ॥ देवाञ्च रक्षन्तीत्येत दपि नास्तीत्याह-भक्षितायामिति । ईश्वराः देवाः के वा मम प्रियं कर्तुं शक्ताः आसक्तिमन्तः, न केपीत्यर्थः । देवादयो यदि मम मियं कर्तुं शक्तास्तर्हि सीताहर णादेः पूर्वमेव रक्षेरन अतस्त्वेतादृशा न भवन्तीति भावः ॥ ६५ ॥ अयं स्वयंकृतानर्थ इत्यभिप्रायेणाह कर्तारमिति । करुणवेदिनं कारुण्यपरं लोकानां कतारमपि सर्वभूतानि अज्ञानात् तत्स्वभावापरिज्ञानादशक्तोऽयमित्यवमन्येरन् ॥ ५६ ॥ अस्तु प्रकृते किमायातमत आह-मृदुमिति । मृदुं मार्दवादिधर्मयुक्तं मां त्रिदशेश्वराः निर्वीर्य मन्यन्ते, अज्ञत्वाविशेषादिति भावः ॥ ५७ ॥ मामिति । अत एव मां प्राप्य गुणोषि मार्दवादिगुणोपि दोषः अनिष्टसाधनत्वेन संवृत्त इत्यर्थः । अतो मृदुत्वं
For Private And Personal Use Only