SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir केति । कनु अत्र वने कुत्र प्रदेशे वर्तते, कं वा देशान्तरं गता ॥३॥ वृक्षणेति । आच्छाद्य, स्वमिति शेषः । इसितुम् अन्तर्हितां मां ज्ञातु ॥ मसमर्थोऽसीत्येवं परिहसितुम् । अद्य शोककाले ॥४॥क्रीरे क्रीडसि । विश्वस्तैः चिरोपलालनेन विश्वासं प्राप्तः। मृगपोतकै बालमृगैः । “पोतः पाकोऽर्भको डिम्भः" इत्यमरः । ध्यायन्ति त्वामिति शेषः । किनधि ध्यायन्तीति वा ॥ सीतयेति । इदममेकं वाक्यम् ॥ ५॥ परलोके स्वर्गे ॥ ६॥ क्व नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥३॥ वृक्षणाच्छाद्य यदि मां सीते हसितुमिच्छसि । अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥४॥ यैः सह क्रीडसे सीते विश्वस्तै मंगपोतकैः। एते हीनास्त्वया सौम्ये ध्यायन्त्यास्राविलेक्षणाः ॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण ॥५॥ मृतं शोकेन महता सीताहरणजेन माम् । परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥ ६॥ कथं प्रतिज्ञा संश्रुत्य मया त्वमभियोजितः । अपूरयित्वा तं कालं मत्सकाशमिहागतः ॥७॥ कामवृत्तमनार्य मामृपावादिनमेव च । धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ॥८॥ विवशं शोकसन्तप्तं दीनं भग्नमनोरथम् । मामिहोत्सृज्य करुणं कीर्तिनरमिवानृजुम् ॥९॥ व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे । त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः1017 कथमिति श्लोकद्वयमेकान्वयम् । प्रतिज्ञा चतुर्दशवर्षवनवासप्रतिज्ञाम् । संश्रुत्य अङ्गीकृत्य । मया अभियोजितः नियुक्तस्त्वं तं कालमपूरयित्वा कथमागतः। कामवृत्तं यथेष्टाचारम् । अनार्य दुर्जनं मां धिक् त्वामिति वक्ष्यति । अहमुपालम्भयोग्य एव, कामवृत्तत्वादिति भावः ॥७॥८॥ विवशमित्यादिश्शेकद्वयम् । विवशम् अस्वाधीनम्, त्वत्परतन्त्रमित्यर्थः । करुणं यथा भवति तथा उत्सृज्य त्यागकालेऽपि तव दयास्त्येवेति भावः ।। अनृणु कपटाचारम् । मां नोत्सृज सुमध्यमे इदं मदुत्सर्जनं त्वल्लक्षणस्याननुरूपमिति भावः । उत्सर्जने को दोप इत्यवाह त्वयेति ॥९॥१०॥ तदेवाह केत्यादि ॥३॥४॥ येरिति । विश्वस्तैः चिरकालसहवासन विश्वास प्राप्तः। ध्यायन्ति, त्वामिति शेषः । अनाविलेक्षणाः अश्रुकलुषनेत्राः ॥५॥६॥ कथमिति । प्रतिज्ञा चतुर्दशवर्षवनवासप्रतिज्ञाम् । अभियोजितः नियुक्तः ॥ ७॥८॥ पुनः सीतामुदिश्य प्रलपति-विवशमिति । अन्जु कपटसचारिणं नरमिव मामुन्सृज्य क गच्छसि । दृष्ट्वेवाह मां नोत्सृज ॥९-११ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy