________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
9
विनाशार्थमेव वनं प्रेषितवतीति सदा वर्तते । तदिदानी सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेन व्यक्तीकृतम् ॥७॥ तपस्विनी शोच्या ॥८॥
वृत्ता परेता । सुवृत्ता स्वाचारा ॥९॥ प्रहसिता प्रहसितमुखी ॥ १०॥ यदि जीवति तदा ब्रूहि वद । वैदेही जीवति वा न वा। न वेत्यस्य विवरण पवयीति । प्रमत्ते अनवहिते ॥ ११ ॥ दुःखं पश्यतीति दुःखदर्शिनी सा न भवतीत्यदुःखदर्शिनी । शोचति अशोचत् । वनवास इति शेषः । दुर्मनाः
सपुत्रराज्यां सिद्धार्थी मृतपुत्रा तपस्विनी। उपस्थास्यति कौसल्या कच्चित् सौम्य न केकयीम् ॥८॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः। सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥९॥ यदि मामाश्रमगतं वैदेही नाभिभाषते । पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ १०॥ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा। त्वयि प्रमत्ते रक्षोभिभक्षिता वा तपस्विनी ॥ ११॥ सुकुमारी च बाला च नित्यं चादुःखदर्शिनी। मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ १२॥ सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ १३॥ श्रुतस्तु शङ्के वैदेह्या स स्वरः सदृशो मम। त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥१४॥ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तु नृशंसानां रक्षसां दत्तमन्तरम् ॥ १५॥ दुःखिताः खरघातेन
राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैभविष्यति न संशयः ॥ १६ ॥ चिन्ताकुलेति यावत् ॥ १२॥ जिह्मेन कपटेन । तवापि अतिशूरस्यापि ॥१३॥ मम स्वरेण यस्मादागतः तस्मात् सः स्वरो वैदेद्या श्रुतःत्रस्तया । तया त्वं प्रेषितश्चेति शङ्क इति योजना ॥१४॥ कष्टमेवाह-प्रतीति । प्रतिक मत्कृतापकारस्य प्रत्यपकारं कर्तुम् । अन्तरम् अवकाशो दत्तः ॥१५॥ प्रतीकारमेवाह-दुःखिता इति । पिशिताशनत्वं निहनने हेतुः ॥ १६॥ सपुत्रेति । सौम्येन विनयेन ॥ ८॥ सुवृत्ता सबुत्ता सीता वृत्ता मृता यदीत्यर्थः ॥९॥ यदीति । प्रहसिता प्रकृष्टं सुन्दरं हसितं यस्याः सा ॥ १०॥ प्रमत्ते अनु चितकारिणि ॥ ११ ॥ १२ ॥ तवापि शूरस्थापि ॥ १३ ॥ स्वरश्च सदृशो ममेति । मम स्वरेणेति शेषः । अत एव वस्तयेति ॥ १४ ॥ प्रतिकर्तु मत्कुनापकारस्य
99999
For Private And Personal Use Only