________________
Shri Mahavir Jan Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsun Gyarmandir
किन्तु दुःखोदकमेव भविष्यतीत्यर्थः ॥ १३॥ दैवतसंयुक्तः दैवबलसंयुक्तः। दीनस्तापसो रामो मां किं करिप्यतीति पूर्व रावणेनोक्तस्य परिहारोऽयम् । V॥१४॥ स त इति । दर्प मदम् । उत्सेकम् उल्लङ्यकार्यकारित्वम् । मात्रेभ्य इत्युक्तिर्दादीनां देहविशिष्टगुणत्वात् ॥ १५॥ लोकन्यायमाह-यदेति । कालचोदितो देवकृतः विनाशो यदा दृश्यते सन्निहितो भवतीत्यर्थः । तदा कायें कृत्ये प्रमाद्यन्ति वैपरीत्यं प्राप्नुवन्ति ॥ १६॥ उक्तं लोकन्यायं प्रकृते|
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः। निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके ॥ १४॥ स ते दर्प बलं वीर्य मुत्सेकं च तथाविधम् । अपनेष्यति गात्रेभ्यःशरवर्षेण संयुगे ॥१५॥ यदा विनाशो भूतानां दृश्यते कालचोदितः। तदा कार्य प्रमाद्यन्ति नराः कालवशं गताः॥१६॥मा प्रधृष्य स ते कालःप्राप्तोऽयं राक्षसाधम आत्मनो राक्षसाना च वधायान्तःपुरस्य च ॥१७॥ न शक्या यज्ञमध्यस्था वेदिःम्भाण्डमण्डिता। द्विजातिमन्त्रपूता च चण्डालेनाव मर्दितुम् ॥ १८॥ तथाहं धर्मनित्यस्य धर्मपत्नी पतिव्रता। त्वया स्प्रष्टुं न शक्यास्मि राक्षसाधम पापिना ॥१९॥ योजयति-मामिति । मां प्रधृष्य स्थितस्य तव । कालोऽप्ययमेव वर्तमान एव, नतु चिरायेत्यर्थः। आत्मनो राक्षसानामन्तःपुरस्य च वधाय प्राप्तः ॥१७॥ न शक्येत्यादिश्लोकद्वयमेकान्वयम् । यज्ञो यज्ञपुरुषः तन्मध्यस्था गार्हपत्याहवनीयमध्यगता । वेदिः ऐष्टिकी महावेदिः । मुम्भाण्डमण्डिता मुगायुप करणालंकृता । द्विजादिमन्त्रैः उद्धननादिमन्त्रैः। पूता शुद्धा यथा चण्डालेनावमर्दितुं पादेनाक्रमितुं न शक्या नाहीं तथाई धर्मनित्यस्य यज्ञस्थानीयस्य धर्मपत्नी पतिव्रता त्वया स्प्रष्टुं न शक्या ॥ १८॥ १९ ॥
विशेष हेतुमाने पर्यवसायि एतत्पदं तया हेतुनेति केचित्पूरयन्ति । यद्वा याहं त्वया पतिपार्धाद्विनामावं वियोग नीता, तस्या मम भर्ता रामो देवतसंयुक्तो|
देवानुकूल्यवानित्यर्थः । देवरसंयुक्त इति पाठे-देवरसंयुक्तः लक्ष्मणसंयुक्तः । सः खरादिहन्ता ॥ १३ ॥ १४ ॥ दर्ष मदम् उत्सेकमुखङ्गच कार्यकारित्वम् अतिशय वावा । बलं देहशक्तिम् चतुरङ्गबलं वा ॥ १५ ॥ १६॥ मा प्रधृष्येति, स्थितस्येति शेषः । स ते कालः अयमेव वर्तमान एव न चिरायत्यर्थः ॥१७॥ टीका-मुग्माण्ड
सुगादियागोपकरणम् । अवमर्दितुं स्प्रष्टुम् ॥ १८॥ १९॥
For Private And Personal Use Only