________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandir
अत्र आगन्तुं मानसिकव्यापारोपि न शक्यः, किं पुनः कायिक इत्यर्थः ॥ २३ ॥ अशक्यत्वे दृष्टान्तमाह-न शक्य इति । विमला निर्धूमाम् ।। शिखां ज्वालाम् ॥ २४ ॥ त्रयाणामिति । लोकानामिति निर्धारणे षष्ठी ॥ २५॥ त्वत्प्रेष्याः त्वत्परिचरिकाः, भविष्यन्तीति शेषः । अभिषकेत्यर्धमेकं वाक्यम् । अभिषेकोदकेन पट्टमहिषीत्वेनाभिषेकोदकेन । किन्ना सिक्का ॥ २६ ॥ दुष्कृतमिति । पुरा पूर्वजन्मनि यहुष्कृतं कर्मास्ति तत्
न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः । दीप्यमानस्य वाप्यनेर्ग्रहीतुं विमलां शिखाम् ॥ २४ ॥ त्रयाणामपि लोकानां न तं पश्यामि शोभने। विक्रमेण नयेद्यस्त्वां माहुपरिपालिताम् ॥ २५ ॥ लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः। अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ॥ २६॥ दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् । यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि ॥ २७ ॥ इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि । भूषणानि च मुख्यानि सेवस्व च मया सह ॥२८ ॥ पुष्पकं नाम सुश्रोणि भ्रातुर्वेश्रवणस्य मे । विमानं सूर्यसङ्काशं तरसा निर्जितं मया ॥२९॥ विशालं रमणीयं च तद्विमानमनुत्तमम् । तत्र
सीते मया साध वहरस्व यथासुखम् ॥३०॥ वनवासेन वनवासक्लेशेन दत्तफलत्वात् गतं नष्टम् ॥२७॥ भूषणानि च मुख्यानि, सेवस्व धारयेत्यर्थः ॥ २८ ॥ पुष्पकमित्यादि । तरसा बलेन । विशालं वेशनयोग्यम् । " वेः शालच्छङ्कटचौ" इत्यनेन शालच प्रत्ययः। असङ्कोचन्यायायावदुपवेसम्भावनमुपवेशाहमित्यर्थः ॥२९॥३०॥ श्रीराम कदा द्रक्ष्यामीत्युत्कण्ठा मा कुर्वित्यर्थः ॥ २३-२५ ॥ लङ्कायामित्यारभ्य अलं वीडेनेत्यन्तश्लोकानां प्रातीतिकार्थः स्पष्टः । वस्तुतस्तु-कुलदेवतायै देश्य रावणः स्वात्मात्मीयसमर्पणं करोति लङ्कायामित्यादिश्लोकद्वयेन । मद्विधा इत्यनेन आत्मसमर्पणम्, लङ्काया राज्यमनुपालयेत्यनेन आत्मीयसमर्षणमिति शेयम् । सुकृतफलमपि समर्पयति-दुष्कृतमिति । बनवासेन वनं जलम्, जलमध्यस्थलङ्काद्वीपवासिना, मयेति शेषः । पुरा यदुष्कृतं कर्म, कृतमिति शेषः । तद्गतं नष्टम् । मदिष्टदेवतायास्तव दर्शनमात्रेणेति शेषः । पुरा मया सक्तो यो धर्मः तस्य फलं ते तुभ्यं निवेदयामि । आमुहिगृहाणेत्यर्थः ॥ २६ ॥२७॥ इति । मया समर्पितानीति शेषः । सह एकदेव ॥ २८ ॥ पुष्पमित्यादिश्लोकद्वयमेकं वाक्यम् । अब पुष्पके मया समर्पिते पुष्पक इत्यर्थः । साध सर्वसम्पद्भिरिति शेषः।
For Private And Personal Use Only