________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एतच्चान्यच्च वचनं करुणं परुषं च यथा भवति तथा विललाप परिदेवनमकरोत् ॥ २५ ॥ सीतोक्तं सर्वे पापिष्ठस्य तस्य समुद्रघोषतुल्यमासी ||दित्याह तथेति । तथेति वाचामगोचरत्वोक्तिः । विलापपूर्वं करुणं च यथा तथा भाषिणीं करुणं यथा तथा विवेष्टन्तीं विवेष्टमानाम् । आगतगात्रवेपथुम् उत्पन्नशरीरकम्पाम् ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ॥
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह ॥ २५ ॥ तथा भृशात बहु चैव भाषिणीं विलाप पूर्व करुणं च भामिनीम् । जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ २६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥
ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान पञ्च वानरपुङ्गवान् ॥ १ ॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च । मुमोच यदि रामाय शंसेयुरिति मैथिली ॥ २ ॥ वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् । सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान् ॥ ३ ॥ पिङ्गाक्षास्तां विशालाक्षी नेत्रैरनिमिषैरिव । विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः ॥ ४ ॥
Acharya Shri Kailassagarsun Gyanmandir
अथ सीताया अशोकवनिकायां स्थापनमाड़-ह्रियमाणा त्वित्यादि । नाथं रक्षकम् ||१|| तेषामित्यादिसार्धश्लोक एकान्वयः । उत्तरीयम् उत्तरीयभूतं कौशेयम् । आभरणानि कौशेये बद्धा मुमोचेत्यर्थः । किमर्थ मुमोचेत्यत्राह - यदि रामाय शंसेयुरिति । यदृच्छया दृष्टाय रामाय स्वस्य रावणापहरणं कथयेयुरिति प्रत्याशयेत्यर्थः । " आशंसावचने लिङ् " इति लिङ् ॥ २ ॥ वस्त्रमिति । सहभूषणं भूषणान्तरितं वस्त्रम् । उत्सृज्य उन्मुच्य । तन्मध्ये सीतया निक्षिप्तमिति यत् तत्कर्म सम्भ्रमात्सीतापहारजनितक्षोभात् न बुद्धवान्। यदि बुद्धचेत गृह्णीयादेवेति भावः ॥ ३ ॥ पिङ्गाक्षाः वानराः, न केवलं एकाकिनेति यावत् ॥ २३ - २५ ॥ तथेति । आगतगात्रवेपथुः भारातिशयात् ॥ २६ ॥ इति श्रीमहेश्वर० आरण्यकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ५३ ॥ द्वियमाणेनि नाथं रक्षकम् ॥ १ ॥ नेषामिति । शंसेयुरिनि प्रत्याशयेति शेषः ॥ २ ॥ वखमिति । तत्कर्म भूषणक्षेपणकर्म । सम्भ्रमात् सभयहरणजनित
For Private And Personal Use Only