SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www bath.org Acharya Shri Kalassagarsun Gyarmandir बा-राम. ११२९॥ टी.आ.कॉन . त्वयैवेति । हतु मामिति शेषः । अपवाहितः अपनीतः। मृगरूपेण मायया मायारूपमृगेणेत्यर्थः ॥४॥ य इति । पुराणो वृद्ध इति व्यङ्गयोक्तिः। अतिवृद्धं हत्वा शूरोऽहमिति मन्यस इति भावः ॥५॥ परममिति सोल्लुण्ठनं वचनम्, अतिनीचमित्यर्थः। तत्र हेतुमाह विश्राव्येति । हि यस्मात् स्वनामधेयं विश्राव्य अहं रावणोस्मीति स्वनाम प्रख्याप्य युद्धनास्म्यहं जितेति व्यतिरेकोक्तिः । यद्वा ते परमम् अवीर्य कीवत्वं हि यस्माद्युद्धे न जितास्मि ॥६॥ त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता । ममापवाहितोभर्ता मृगरूपेण मायया ॥४॥ यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः। गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥५॥ परमं खलु ते वीर्य दृश्यते राक्षसाधम । विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥६॥ ईदृशं गर्हितं कर्म कथं कृत्वा न लजसे । स्त्रियाश्च हरणं नीच रहिते तु परस्य च ॥७॥ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् । सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः॥८॥ धिक् ते शौर्यं च सत्त्वं च यत्त्वं कथितवास्तदा । कुलाकोशकरं लोके धिक् ते चारित्रमीदृशम् ॥ ९॥ किं कर्तु शक्यमेवं हि यज्जवेनैव धावसि । मुहूर्तमपि तिष्ठस्व न जीवन प्रतियास्यसि ॥ १०॥ रहिते स्वामिरहितप्रदेशे। परस्य स्त्रियाः हरणरूपमीदृशं गार्हतं निन्दितं कर्म कृत्वा कथं न लजसे ॥ ७ ॥ शौण्डीर्यमानिनः तव कर्म कुत्सितं सुनृशंसम् अधर्मिष्ठं च कथयिष्यन्तीत्यन्वयः ॥८॥ विगिति । तदा हरणकाले । यच्छौर्य सत्त्वं बलं कथितवानसि तद्धिक । “ उदहेयं । भुजाभ्यां तु मेदिनीमम्बरे स्थितः।" इत्यादि त्वदुक्तमन्तप्रलपनमित्यर्थः। कुलाकोशकरं कुलनिन्दाकरम् ॥९॥ यत् यदा एवं जवेनेव धावसिष तदा रामेण त्वगि किं कर्तुं शक्यम् । तर्हि कदा शक्यमित्यत आह मुहूर्तमिति । मुहूर्तमपि मुहूर्तमेव तिष्ठस्व तिष्ठ तदा जीवन् सन् न प्रतियास्यसि । त्वयैवेति । मृगरूपेण परिणतया मायया । मम भर्ता अपवादितः अन्यत्र नीतः ॥ ४॥ य इति । पुराणः वृद्धः, अत एवास्य निपातः तव वीर्यहेतुर्न भवतीति मावः । परममिति व्यङपोक्तिः । विश्राप्य त्वदीयं नामधेयं श्रावयित्वा युद्धेन जितास्मीति योजना। टी-युद्ध इति सप्तम्पन्तं पदम् ॥ ५॥५॥गर्हितमिति । ईदृशं परस्त्रीहरणरूपं कर्म । रहितेन पतिरहितेन कालेन कृत्वा कर्य न लजसे ॥ ७॥८॥ धिगिति । कुलाक्रोशकर कुलनिन्दाकरम् ॥९॥ किं कर्तुमिति । भयेन। धावसीति यत् एवं कर्तुं शक्यं किम् न शक्यमित्यर्थः । श्रीरामभयेन त्वया पलायनं क्रियते तदेतन्मया निवारयितुं न शक्यम्, स्त्रीत्वादिति भावः। यद्वा इह १२९॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy