________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अथ स्वामिविषये दासेन यावच्छक्ति शेषवृत्तिखश्यं कर्तव्यत्यमुमर्थ लोके प्रवर्तयितुं जटायुवृत्तान्तमुपक्षिपति सर्गद्वयन । अब प्रथमं जटायुःसान्त्वनभर्स नाभ्यां रावणमनुकूलयितुमिच्छतीत्याह-तं शब्दमित्यादि । अवसुप्तः ईषत्सुप्तो जटायुः । अथ सीतावचनानन्तरम् । तं शब्दं शश्वे । आत्मनेपद मार्षम् । ततःप्रथम महाशरीरतया रावणं निरीक्ष्य सः वैदेहीं ददर्श ॥१॥ तीक्ष्णतुण्डः तीक्ष्णमुखः। “वकास्ये वदनं तुण्डम्" इत्यमरः। श्रीमान् कैय
तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे। निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥१॥ ततः पर्वतकूटाभस्तीक्ष्ण तुण्डः खगोत्तमः। वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥२॥ दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः । जटायुर्नाम नाम्नाऽहं गृध्रराजो महाबलः॥३॥राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः। लोकानां चहिते युक्तो रामो दशरथात्मजः ॥४॥ तस्यैषा लोकनाथस्यधर्मपत्नी यशस्विनी। सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि ॥५॥ कथं राजा स्थितो धर्मे परदारान् परामृशेत् । रक्षणीया विशेषेण राजदारा महाबल ॥६॥ निवर्तय मतिं नीचां पर दाराभिमर्शनात् । न तत् समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ॥ यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता ॥७॥ श्रीसमृद्धः । शुभां रावणस्य शोभनावहाम् ॥२॥ पुराणे सनातन धर्म, दास्यवृत्तावित्यर्थः। स्थितः तदेकपरायणः । सत्यम् “सत्यं ज्ञानमनन्तं ब्रह्म" इत्युक्तः परमात्मा संश्रयः आलम्बनं यस्य सः। भगवदेकोपायनिष्ठ इत्यर्थः। नाना जटायुनाम जटायुरिति प्रसिद्धः । तथा च मयि दासे स्थिते तव सीतापहरणं न युक्तमिति भावः ॥३॥ स्वस्वरूपमुक्त्वा स्वामिस्वरूपमाइ-राजेति । महेन्द्रवरुणोपमत्वमेकदेशसाम्यात् । सर्वलोकस्य राजा स्वामी, भवतोपि स्वामीत्यर्थः ॥ ४॥ तथा च राजदारापहारो न युक्त इत्याह-तस्येति । सहधर्मचारिणीति धर्मपत्नीशब्दार्थः॥५॥ मा भूत्तव । रामे स्वामित्वबुद्धिा, मनुष्यमात्रबुद्धिं राजबुद्धि वा कृत्वा सीतां परिहरेत्याइ-कथमिति । राजा भवानिति शेषः॥६॥राजत्वबुद्धिस्तव रामे मा भूत से तथापि परदाराभिमर्शनं न कार्यमित्याह-निवर्तयेति । परदाराभिमर्शनान्मात निवर्तय तद्विषयमतिं न कुर्वित्यर्थः। नीचत्वमेवाह-नेति। धीरः धीमान तं शब्दमिति । सुप्तो जटायुः । अवबोधानन्तरं तं शब्दं शुश्राव । जटायो पश्य मामित्यामन्त्रणेन प्रबुद्धः पश्चादुत्तरवाक्यजातं शुश्रावेत्यर्थः ॥१॥२॥ पुराणे सना तने धर्मे । सत्यसंश्रयः सत्यावलम्बी ॥३॥ सर्वलोकस्य राजा राम इत्यनेन तवापि राजेति भावः ॥४॥ धर्मपत्नीत्यनेनेतद्धरणे महापापं सूचितम् ॥५॥ रक्षणीया विशेषेण राजदारा इत्यनेन राजदारापहरणस्य गुरुतल्पसमत्वादिति भावः ॥६॥ नीचां निकृष्टाम् । अस्प पुरुषस्य परः यत्कर्म विगर्हयेत् निन्देव न तत्समा
For Private And Personal Use Only