SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir चुक्रोश ॥२३॥ अमर्षिणा खरवधकृतामर्षवता ॥२४॥ धर्महेतोः आश्रितसंरक्षणरूपधर्महेतोः । जीवितं सुखमयोश्च परित्यजन् जीवितादिपरित्याग शीलः ॥२५॥ ननु नामेति प्रसिद्धौ । अविनीतानां दुर्जनानाम् । विनेता शिक्षकः । पापं पापिष्ठं कथं न शास्सि न शिक्षयसि ॥२६॥अशासने स्वयमेव । हेतुमुन्नयति-नविति । अविनीतस्य दुर्जनस्य । कर्मणः पापस्य सबः फलं न दृश्यते । कुतः अत्र फलदर्शने कालोप्यङ्गीभवति सहकारिकारणं भवति ।। हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । द्वियमाणां न जानीषे रक्षसा माममर्षिणा ॥ २४॥ जीवितं सुखमर्थाश्च धर्महेतोः परित्यजन् । द्वियमाणामधर्मेण माराघव न पश्यसि ॥२५॥ ननु नामाविनीतानां विनेतासि परन्तप । कथमेवंविधं पापं न त्वं शास्सि हि रावणम् ॥२६॥ नतु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये ॥२७॥ स कर्म कृतवानेतत् कालोपहतचेतनः । जीवितान्तकरं घोरं रामाद्यसन मानुहि ॥ २८॥ हन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः। हिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः ॥२९॥ आमन्त्रये जनस्थाने कर्णिकारान सुपुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥३०॥ माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥३१॥ हंसकारण्डवाकीर्णी वन्दे गोदावरी नदीम् । क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः ॥३२॥ अभूततद्भावे चिः । पक्तये पाकाय ॥२७॥ सः त्वमित्यर्थः । व्यसनं भ्रंशम् । “व्यसनं विपदिभ्रंशे" इत्यमरः ॥२८॥ वने राक्षसादिभिर्हता भवेदिति मां कैकेयी वनं प्रेषितवतीति वैदेह्या हृदये सर्वदा स्थितं,तदिदानी सुप्तप्रमत्तकुपितानां भावज्ञानं दृष्टमिति न्यायेनोहाटयति-हन्तेति । अत्र हेतुमाह ह्रिये यदिति ॥२९॥ अथ चित्तविभ्रमातिरेकादचेतनानपि रामायाख्यातेत्यभ्यर्थयते-आमन्त्रय इत्यादिभिः सप्तश्लोकः । आमन्त्रये सम्बोधयामि । जनस्थाने स्थितानिति शेषः। कर्णिकारान् परिव्याधाख्यान पुष्पवृक्षान् । रावणः सीता हरतीति यत् एतच्छंसध्वं कथयत । एवमुत्तरत्रापि योज्यम् ॥३०॥ माल्यवन्तं पुष्पवन्तम् । शिखरिणं प्रशस्तशिखरम् । प्रस्रवणं प्रस्रवणाख्यम् ॥ ३१ ॥ हंससारसंघुष्टामिति पाठे-संघुष्टाः हंसाः सारसाश्च यस्यां। विनीतोसि शिक्षितोऽसि ॥२६-२९॥ टीका-आमन्त्रये सम्पोषयामि सीतां हरति रावण इत्यत्रेतिकरणं द्रष्टव्यम् ॥३०॥ माल्यवन्तं पुष्पवन्तम् । शिखरिण शृङ्गवन्तम् । प्रसवणात्यं गिरिम् ॥३१॥३२॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy