SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इंसविशेषः ॥ ४७ ॥ तस्मिन् रामे स्थिते सति । जरां जीर्णतां मक्षिकया अवगीर्ण ग्रस्तं वज्रं हीररत्नं मक्षिकया तण्डुलखण्डभ्रान्त्या ग्रस्तं हरिरत्न * मित्यर्थः । यथा न जीर्णे भवति । यद्वा मक्षिकया सहावगीर्णे भुक्तं वज्रम आज्यम् । " वज्रो वा आज्यम् ” इति श्रुतेः । यथा न जीर्ण भक्ती ॐ त्यर्थः । तथा अहं त्वया हृतापि ते जीर्णतां न गमिष्ये न गमिष्यामि । प्रत्युत तवैव मरणं प्रापयिष्यामीत्यर्थः ॥ ४८ ॥ इतीव उक्तप्रकारसदृशं तद्वाक्यं सुधृष्टं यथा तथा उक्त्वा । सा सीता वातोद्धता वाताहता कदलीव गात्रप्रकम्पव्यथिता शरीरकम्पेन पीडिता बभ्रुव ॥ ४९ ॥ वेपमानां तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ । हृतापि तेऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥४८॥ इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम् । गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥ ४९ ॥ तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः । कुलं बलं नाम च कर्म च स्वं समाचचक्षे भय कारणार्थम् ॥ ५० ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥ १ ॥ भ्राता वैश्रवणस्याहं सापत्नी वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ २ ॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः । विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः ॥ ३ ॥ कम्पमानाम् । उपलक्ष्य तत्कम्पेन तद्भयमुपलक्ष्य, भूयो भयजननेन एषा स्ववशीकर्तुं शक्येति मत्वा भयकारणार्थे भयोत्पादनार्थम् । स्वं स्वकीयं कुलादिकमाचचक्षे । कर्म पौरुषम् ॥ ५० ॥ इति श्रीगोविन्दराज • श्रीरामायणभूषणे रत्नमे० आरण्यकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ एवं ब्रुवन्तीं सीतां रावणो भर्त्सयति - एवमित्यादिना । संरब्धः कुपितः सम्भ्रमाविष्टो वा ॥ १ ॥ भ्रतेति । वैश्रवणस्य सपत्न्या मातुरपत्यं पुमान् सापत्नः, सापत्न एव सापत्न्यः | स्वार्थे ष्यञ् ॥ २ ॥ यस्येति । यस्य सम्बन्धिनो भयात् देवादयः मृत्योर्भीताः प्रजा इव विद्रवन्ति ॥ ३ ॥ जरा जीर्णावस्थाम् । वज्जं रत्नविशेषः । अवगीर्ण प्रस्तम्, वज्रखण्डं तण्डुलखण्डमिति बुद्धया प्रस्यते तत्तस्य नाशाय भवति तद्वदित्यर्थः । यद्वा वज्ज्रम् आज्यम् । " वज्जो वा आज्यम् ” इति श्रुतेः । मक्षिकया सहावगीर्णे भुक्तमित्यर्थः ॥ ४८ ॥ ४९ ॥ भयकारणार्थं भयोत्पादनार्थम् ॥ १० ॥ इति श्रीमहेश्वरतीर्थविर चितायां श्रीरामायणतत्त्वदीपिकाख्यायामारण्यकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ ४७ ॥ १ ॥ २ ॥ पतगाः गरुडाः देवयोनिविशेषाः ॥ ३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy