________________
Shri Mahavir Jan Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagersun Gyanmandir
ग्रहणस्य विध्यन्तरोपसङ्घहार्थवादा किप ॥१८॥ स इति । मया सह अन्वगच्छदित्यन्वयः ॥ १९ ॥ जटीति । तापसरूपस्यानेकरूपत्वाजटीति विशेष यति ॥२०॥ ते वयामति ।कृते प्रयोजनाय क्रियते संपाद्यत इति कृत् । संपदादित्वात् किप । गम्भीरं दुष्पवेशम् । ओजसा बलेन । "ओजो दीप्ती बले" इत्यमरः ॥२१॥समाश्वस समाश्वसिहि, विधान्ति कुर्विन्यर्थः। वस्तुं स्थातुं शक्यं पवित्रदेशत्वादिति भावः। पुष्कलं समग्रम् ॥२२॥ स त्वमिति । स त्वम्
स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः। अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह ॥ १९ ॥ जटी तापसरूपेण मया सह सहानुजः । प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः ॥२०॥ ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः । विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ॥२१॥ समाश्वस मुहूर्त तु शक्यं वस्तुमिह त्वया । आग मिष्यति मे भर्ता वन्यमादाय पुष्कलम् ॥ २२॥ [रुरून् गोधान वराहांश्च हत्वादायामिषान बहून् । ] स त्वं नाम च गोत्रं च कुलं चाचक्ष्व तत्त्वतः। एकश्च दण्डकारण्ये किमर्थ चरसि द्विज ॥२३॥ एवं ब्रुवन्त्यां सीतायां राम पन्त्यां महाबलः। प्रत्युवाचोत्तरं तीवं रावणो राक्षसाधिपः ॥२४॥ येन वित्रासिता लोकाः सदेवासुरपन्नगाः । अहं तु रावणो नाम सीते रक्षोगणेश्वरः ॥२५॥ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ २६ ॥ एवं समाश्वस्तस्त्वं कुलं गृहम् । " कुलमन्वयससातगृहपर्याश्रमप्वपि” इति निघण्टुः । ननु संन्यासिनं प्रति कुलगोत्रप्रनोनुपपन्नः एकाकितयाऽरण्ये संचारश्च यतेधर्म एव अतोऽसङ्गत इव प्रतिभातीति चेत् । उच्यते-पूर्वाश्रमनामगोत्रप्रश्नीयम् । “भिक्षार्थ ग्रामं प्रविशेत् " इति श्रुत्या भिक्षो मसमी पारण्ये वस्तव्यम् नतु ग्रामप्रसङ्गरहितेऽरण्य इति कथं भवान् भिक्षाप्रदजनरहितश्वरसीति प्रश्न उपपद्यते ॥२३॥ एवमिति । आत्मवैभवप्रकटनावसर प्रतीक्षकतया तीव्र झटितीत्युक्तम् ॥२४॥ येनेति । लोकाः जनाः॥२५॥ त्वामिति । काञ्चनवर्णाभां स्वर्णवर्णतुल्यकान्तिम् ॥२६॥ कैकेय्याः कृते कैकेयीनिमित्तम् ॥ २१ ॥ समाश्वस समाश्वसिहि विश्रान्ति कुरु ॥ २२ ॥ स त्वमिति, अब त्वदीयमिति शेषः । कुलशब्देन मातकुलम्, गोत्रशब्देन पितकुलमुच्यते ॥ २३.२५ ॥ त्वा तु कावनवर्णाङ्गीमित्यादिश्योकम्य प्रातीनिकार्थः स्पष्टः । वस्तुतस्तु-स्वां ममेष्टदेवतामित्यर्थः । रहा स्वकेषु पुत्रमित्राविषु वारे
For Private And Personal Use Only