________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥११३॥
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रत्राजनानईत्वमाह - रामेतीति । गुणवान् सौशील्यवान् ॥ ११ ॥ एवम्भूतस्य प्रवाजनं दशरथदोषकृतमित्याह- कामार्त इति । नाभ्यषेचयत् कैकेयी सम्मतिं विनेति शेषः । तत्र हेतुः प्रियकामार्थमिति । प्रियकरणकामाय प्रतिज्ञात कैकेयीप्रियकरण निर्वाड़ायेत्यर्थः । तव प्रियं करिष्यामीति प्रथमप्रतिज्ञा करणे हेतुः कामार्त इति । कामार्ततया प्रथमं तव यत् प्रियं तत्करिष्यामीति प्रतिज्ञाय पश्चाद्रामप्रत्राजने तया वृते प्रतिज्ञाभङ्गं कर्तुमक्षमो नाभ्यषे कामार्तस्तु महातेजाः पिता दशरथः स्वयम् । कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ॥ १२ ॥ अभिषेकाय तु पितुः समीपं राममागतम् । कैकेयी मम भर्तारमित्युवाच धृतं वचः ॥ १३ ॥ तव पित्रा समाज्ञप्तं ममेदं शृणु राघव । भरताय प्रदातव्यमिदं राज्यमकण्टकम् ॥ १४ ॥ त्वया हि खलु वस्तव्यं नव वर्षाणि पञ्च च । वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥ १५ ॥ तथेत्युक्त्वा च तां रामः कैकेयीमकुतोभयः । चकार तद्वचस्तस्या मम भर्ता दृढव्रतः ॥ १६ ॥ दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् । एतदब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम् ॥ १७॥ तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान् । रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ॥ १८ ॥
चयदित्यर्थः ॥ १२ ॥ सामान्यत आह्वानेनाभिषेकाय भवितुमर्हति मदाह्वानमित्यागतमित्यर्थः । धृतं धैर्ययुक्तमिति क्रियाविशेषणम् ॥ १३ ॥ तवेत्यादि | श्लोकद्वयमेकान्वयम्। त्वद्विषये पित्रा समाज्ञप्तं समाज्ञापनम् । मम मत्तः शृणु । इदं राज्यं भरताय प्रदातव्यं तदर्थे त्वया नव पञ्च च वर्षाणि चतुर्दश वर्षाणीत्यर्थः । वने वस्तव्यं तदर्थ प्रत्रज । अनृतात् प्रतिज्ञाभङ्गरूपात् ॥ १४ ॥ १५ ॥ अकुतोभयः राज्यत्यागवनवासाभ्यां भयरहितः ॥ १६ ॥ दृढवत इत्युक्तमुपपादयति- दद्यादितिं । ध्रुवं निश्वलम् । अनुत्तमम् अवश्यपरिपालनीयम् ॥ १७ ॥ तनि० - दद्यादित्यनेन अर्थिनां यावदपेक्षितं दानं विवक्षितम् । न प्रतिगृह्णीयादित्यनेनावाप्तसमस्तकामत्वं व्यज्यते ॥ १७ ॥ तस्येति । द्वयोर्मात्रोरपत्यं पुमान् द्वैमात्रः। अण् प्रत्ययः । “मातुरुत्सङ्ख्या -" इत्युदादेशाभाव आर्षः । गुर्वक्षरं च च्छान्दसम् । अरिहेति छन्दोबद्भावात् “बहुलं छन्दसि' इति सूत्रेण ब्रह्मादिभिन्नेप्युपपदे क्विप् । यद्वा “ अन्येभ्योपि दृश्यते ” इत्यत्र दृशि अष्टादश गण्यते गण्यन्ते । वचनव्यत्यय आर्षः । वर्षाण्यष्टादशेति गण्यत इति वा ॥ १०-१६ ॥ अत्र दद्यादित्यनेन अर्थिनां यावदपेक्षितं वस्तु ददातीत्युक्तं भवति । न प्रतिगृह्णीयादित्यनेन अवाप्तसकलकामत्वं व्यज्यते ॥ १७ ॥ द्वैमात्रः द्वयोर्मात्रारपत्यं सपत्निकमातुः पुत्र इत्यर्थः ॥ १८-२० ॥
For Private And Personal Use Only
टी.आ.का. स० ४७
॥१०७॥