________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
पा.त..
॥११॥
पित्वेत्यादिना । विवाहानन्तरम् इक्ष्वाकूणां निवेशने अयोध्यायाम् । द्वादशसमाः द्वादशवत्सरानुषित्वा तत्र सर्वकामसमृद्धिनी काम्यन्त इति कामाःटी .आ.का. भोगोपकरणम्रक्चन्दनादीनि तेषां समृद्धं समृद्धिः । भावे निष्ठा । तद्वती सती मानुषान् भोगान् रतिक्रीडाः, अग्राम्यत्वाय मानुषानित्युक्तम् । वस्तुतः स.. जस्वयं दिव्यभोगपरतया मानुपानित्यवशमुक्तवती । यद्वा मानुषान् मनुष्यत्वेनावतीर्णरामकृतान् भोगान् । अमानुषानिति वा छेदः । मनुष्यदुर्लभान
ततस्त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः। अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥५॥ तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने । कैकेयी नाम भर्तारमार्या सायाचते वरम् ॥ ६॥ प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे । मम प्रवाजनं भर्तुर्भरतस्याभिषेचनम् । द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम् ॥७॥ नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये च कथञ्चन । एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ८॥ इति वाणां कैकेयीं श्वशुरो मे स
मानदः। अयाचवार्थरन्वर्थेन च याचा चकार सा ॥९॥ दिव्यान् भोगानित्यर्थः। भुनाना अभवमिति शेषः। सर्वकामसमृद्धिनि इति सतम्यन्तपाठे-सर्वकामसमृद्धिनि इक्ष्वाकूणाम् इक्ष्वाकुवंश्यस्य रामस्य । पूजायां बहुवचनम् । बीडया भर्तनामाग्रहणं निवेशने गृहे । द्वादशसमाः द्वादश वत्सरान् । अत्यन्तसंयोगे द्वितीया । अमानुपान् भोगान् भुनाना अनुभवन्ती सती उपित्वा उषितवत्यस्मि । व्यत्ययेन त्वाप्रत्ययः॥४॥तत इति । राजा दशरथः। अमन्त्रयत् अकथयत् ।राजमन्त्रिभिःमन्त्रिराजैः मन्त्रि श्रेष्ठेरिति यावत् । राजदन्तादित्वात्परनिपातः॥५॥ तस्मिन्निति । तस्मिन् रामाभिषेचने सम्ब्रियमाणे आरभ्यमाणे सति आर्या पूज्या मम श्वश्रूरित्यर्थः। सा प्रसिद्धा कैकेयी वरं याचते अयाचत ॥६॥ कं वरंकमयाचतेत्यत्राह-प्रतिगृह्येति । साईश्लोक एकान्वयः । कैकेयी मे श्वशुरं स्वस्य भर्तारं सत्यसन्धं सत्यप्रतिज्ञं नृपोत्तमं दशरथम् । सुकृतेन प्रतिगृह्य धर्मेण शापयित्वा। यदा सुकृतेनोपकारेण प्रतिगृह्य वशीकृत्य स्वकृतप्राणप्रदानोपकारस्मरणेन राजानं वशीकृत्येत्यर्थः। मम भर्तुःप्रवाजनं भरतस्याभिषेचनमित्येवंरूपो द्वौ वरावयाचत ॥७॥ नाद्येति । पास्य इत्यात्मनेपदमार्षम् । एषः अभिषेकः ॥८॥ ॥१२॥ इतीति । मानदः बहुमानप्रदः । अन्वथैः अर्थानुगतैः, सप्रयोजनैरिति यावत् । उपभोगक्षमेरित्यर्थः । अथैः सुवर्णरत्नादिभिः । कैकेयीमयाचत वरद्वय संश्चियमाणे राघवस्याभिषेकोपयुक्तसम्भार इत्यर्थः ॥६॥ मे श्वशुरं सुकृतेन धर्मेण शापयित्वा अयाचत ॥७॥८॥ अधैरन्वरः सुवर्णरत्नादिभिः अन्वरनुगताः ।
For Private And Personal Use Only