________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
टी.आ.का.
पा.रा.भ. काकुत्स्थं प्रतिवार्य निवर्त्य उवाच, राममिति शेषः । तत्र हेतुश्चमणेति । हतचेतना हतप्रज्ञा ॥८॥नो भविष्यति नः भविष्यति । न भविष्यतीत्यपि ॥१०॥ वाग्दोषः ॥९॥ सहिताः सङ्घीभूताः। मृमराः व्यालमृमाः। "मृमरः स्याब्बालमृगः" इति वैजयन्ती। चमराः चामरमृगाः । ऋक्षाः भल्लूकाः । पृषताः
एवं अवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा चर्मणा हृतचेतना ॥ ८॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडाथ नो भविष्यति ॥९॥ इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः। मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा ॥ १०॥ ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा। विचरन्ति महा बाहो रूपश्रेष्टा मनोहराः॥११॥ न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा । तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः ॥ १२॥ नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः । द्योतयन वनमव्यग्रं शोभते शशिसन्निभः ॥ १३॥ अहो रूपमहो लक्ष्मीः स्वरसम्पञ्च शोभना। मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥१४॥ यदि ग्रहणमभ्येति
जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ १५॥ बिन्दुमृगाः। किन्नराः मृगविशेषाः ।। १०॥ ११॥ तेजसा वर्णेन । क्षमया अत्वरया । दीप्त्या शारीरप्रकाशेन । यथायं मृगो दृश्यते तथा तेजआदिभिः अस्य सदृशो मृगो न दृष्टपूर्वः। पुरा भाविकालेपि न दृश्यत इति शेषः।" स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः॥ १२॥ समान चितः व्याप्तः । अव्यग्रं समयं यथा तथा शोभते । शशिसन्निभः आनन्दकरत्वेन शाशसाम्यम् ॥ १३ ॥ रूपं वर्णः । लक्ष्मीः कान्तिः । उक्तानुवाद
पूर्वकं मनोहरत्वमाह-मृग इति । अतो न पूर्वार्धन गतार्थता ॥ १४॥ यदीति श्लोकद्वयमेकान्वयम् । तव ग्रहणं त्वत्कर्तृकग्रहणम् । कर्तरि षष्ठी। तदा एप परम्पभवनाकारविशेषक्षणभरमचम् ॥५॥७॥ काकुत्स्थं लक्ष्मणम् ॥ टी-प्रतिवार्थ परित्य ॥८॥९॥ समरचमरौ कृष्णशुक्रपुच्छो चामरमृगौ ॥१०॥ ११ ॥
तेजसा गर्वेण । क्षमया अत्वरया। दीप्त्या शरीरप्रकाशेन एतैरुपलक्षितः । पुरः निकटे। अयं मृगो यथा यारशमकारः। अस्य सहशो मूगः ष्टपलों न भवतीत्यन्वयः ॥ १२ ॥ रत्नविन्दुसमाचितः रत्नबिन्दुव्याप्तः ॥ १३ ॥१॥ मृगो यदि जीवन्नेव तव ग्रहणमभ्येति यदि गृहीतो भवेत् तदा नः आश्चर्यभूतं भवति।
For Private And Personal Use Only