SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobieth org Acharya Shri Kalassagarsun Gyarmandie 32 क्षणं क्षणार्धमपि वा वियोगो यस्य दुःखदः। तमहं शिरसा वन्दे जानकीप्राणवल्लभम् ॥ एवमित्यादि । भयात् रावणादधुनैव वधो भविष्यतीति भयात् ॥ १॥ दीन इत्युक्तं दौस्थ्यमुपपादयति-दृष्ट इत्यादिना । यद्यई तेन दृष्टः तदा मे जीवितं विनष्टमित्यन्वयः ॥२॥ यमदण्डहतस्य ते प्रति रूपः सदृशः असौ जनो वर्तते त्वमिवाहमपि यमदण्डहत इत्यर्थः ॥३॥४॥ सुसंशिष्टं दृढम् ॥५॥ शौण्डीय वीरत्वम् । “कृशृपृकटिपटिशौण्डिभ्य एवमुक्त्वा तु वचनं मारीचो रावणं ततः। गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः॥ १ ॥ दृष्टश्चाहं पुनस्तेन शर चापासिधारिणा ।मद्धोद्यतशस्त्रेण विनष्टं जीवितं च मे ॥२॥ नहि राम पराक्रम्य जीवन प्रतिनिवर्तते । वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥ ३॥ किंतु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि । एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥४॥ प्रहृष्टस्त्वभवत्तेन वचनेन स रावणः। परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥५॥ एत च्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम् । इदानीमसि मारीचः पूर्वमन्यो निशाचरः ॥ ६॥आरुह्यतामयं शीघ्र रथो रत्नविभूषितः । मया सह तथा युक्तः पिशाचवदनैः खरैः॥७॥ प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि । तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥ ८॥ ततो रावणमारीचौ विमानमिव तं रथम् । आरुह्य ययतुः शीघ्र तस्मादाश्रममण्डलात् ॥९॥ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च । गिरीश्च सरितः सर्वा राष्ट्राणि नगराणि च॥१०॥ ईरन्” इत्यौणादिकसूत्रेण "शौडि गर्व" इत्यस्मादीरन् प्रत्ययः। “शौण्डीरो वीरः" इति वृत्तिकारः । "शौण्डीरस्त्यागिवीरयोः" इति निघण्टुः । तत्कर्म तद्भावो वा शौण्डीर्य गुणवचनत्वात् ष्यत् । शौण्डीर्ययुक्तमेतत्ते भाषितं मच्छन्दादिव मदभिप्रायादिव भापितं मत्सदृशं भापितमित्यर्थः । पूर्वमन्यो यः कश्चन निशाचरोसि विकृवभाषणात् इदानीं मारीचोसि मारीच इति लोकप्रसिद्धनामधेयानुरूपव्यापारोसि स्वप्रकृति प्राप्तोसीत्यर्थः॥६॥d तथति समुच्चये । खयुक्तो रत्नविभूषितश्चेत्यर्थः ॥७॥८॥ तस्मात् मारीचीयात् ॥९॥ तथैव रथारूढावेव । सहेव स्थितावित्यर्थः । पत्तनानि । NI एवमिति । भयाद्रावणादधुनय हानिर्भविष्यतीति घासागच्छामीत्यब्रवीत् ॥ १-४ ॥ सुसंश्लिष्ट दृढम् ॥ ५ ॥ शौण्डीय पौरुषम् । मच्छन्दादिव मम मतसहशमुक्तम् । इदानीं मारीचोऽसि स्वप्रकृति प्राप्तोऽसि । पूर्वमन्यः अधैर्यावलम्बनादिति शेषः ॥ १०॥ शून्ये रामलक्ष्मणरहितसमये ॥ ८-१४॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy