________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
तं दृष्ट्वा पूर्व महासमरे अदृश्यतया स्थितम् इदानीं दृष्ट्वा । तं दृष्ट्वा वीरव्रणेन विगलद्रुधिरेण रोमकूपोल्लसद्भिरपि धर्मपयकोषैः " कोदण्डदण्ड मवलम्ब्य विनीय वर्म किंचित्परिश्रमभृतं प्रियमीक्षमाणा ।" इत्युक्तप्रकारं दृष्ट्वा। तं दृष्ट्वा ततोद्ग्रथितजटामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितूणी रेण रणावसाननिर्वापितकोपाग्नितया प्रसन्नवदनेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमागमिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं दृष्ट्वा । तं दृष्ट्वा पूर्व वीर इति श्रुतम्, इदानी निवर्तितवीरकृत्यं दृष्ट्वा । दर्शनप्रकारमाहशत्रुहन्तारम् । हननव्यापारे कर्मभावः शत्रूणां स्वस्य तु कर्तृभाव एव पास हन्तार हननव्यापार एव दृष्टः नतु शरसन्धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादिसचे सत्यपि शत्रूनेव हतवानित्युच्यते । दुष्टनिग्रह उक्तः । शिष्ट परिपालनमाह महर्षीणां सुखावहम् । महषीणां तपोलेशेन हन्तुं सामर्थ्यपि रक्षकस्वरूपस्य रक्ष्यभूतस्वस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षक व्यापारप्रतीक्षाणां रामप्रतिज्ञामवावलोकयताम् । सुखावहम् “एहि पश्य शरीराणि" इत्युक्तदुःखगन्धं निवर्त्य सुखस्यैव प्रापकम् । बभूव बहुतरशत्रुगणा कमणादामस्यैकाकितया च पूर्व सत्तारहिता सीता सम्प्रति सत्तां लेभे, जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्तामवाप । “आत्मा वै पुरुषस्य दाराः" इत्युक्तरीत्या रामसत्तालाभात् स्वस्या अपि सत्ता जातेति भावः । यद्वा “भू प्राप्तौ" इत्यस्माल्लिटि व्यत्ययेन परस्मैपदम् । भतीरं विजयिन मालोक्य सरभसं गुहान्तरादागतेत्यर्थः । हृष्टा "सति धर्मिणि धर्माः" इति न्यायेन धर्मिलाभानन्तरंतधर्महर्पोऽभूदित्यर्थः । यद्वा आन्तरप्रीत्यङ्कुरोपम रोमाञ्चाञ्चितेत्यर्थः । एवं शौर्यावलोकनप्रीतत्वे हेतुमाह वैदेही । "मिथिलाधिपतिर्वीरः" इत्युक्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे ताशनिरवधिकप्रेमभारभारततया स्वयमालिलिड़े। भर्तारंलोकभारं सर्वलोकमातृत्वेन सर्वप्रजारक्षणं दृष्ट्वा परिपस्वजे आयुधक्षतव्रणेषु सुखोष्णाभ्यां स्तनाभ्यां पस्पर्श । परिपस्वजे पर्याप्तं सस्वजे, पश्चात् पुरस्तात् पार्श्वतश्च पस्पर्शेत्यर्थः। यद्यपि रणे अपलायमानस्य पृष्ठे शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः समावृत्य आयुधप्रक्षेपात् पृष्ठतोपि व्रणसम्भवः बाणानां सम्यक् क्षिप्तानां पृष्ठतो निर्गमोपि सम्भवति । महर्षीणां सुखावह परिषस्वजे पुत्रविषये स्वभोंपकारकरणे पुत्रवात्सल्यात् भर्तरि सन्तुष्टा भायैव ऋषिजनसंरक्षणेन प्रीता परिषस्वजे । राम विना गुहागता सीता ततो निर्गत्य निरस्त समस्तशत्रु रामं परिषस्वज इत्यनेन हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृष्ट्वा तेन सकलविरोधिवगें निवर्तिते ततो निर्गत्य तावास्तु ददृशे स तैः" इत्युक्तरीत्या तात्कालिकस्वेच्छागृहीतचतुर्दशसहस्रदिव्यमलावग्रहवत्तपा प्रतिराक्षसं प्रत्येकं राम इव स्थित्वा दृश्यमानमिति तच्छदार्थः यद्धा इन्द्रादिभिरपि सम्भूयाप्रधृष्यान बलीयसश्चतुर्दशसहस्रराक्षसान एक एवार्धाधिकमुहूर्तेन स्वयमक्षत एव लीलया संहत्य स्वपुरस्स्थितं "राम जामातरंभ
For Private And Personal Use Only