________________
Shri Mahavir Jain Aradhana Kendra
www.kobatith.org
Acharya Shri Kalassagarsun Gyarmandir
बा-रा.भ.
स्थितस्य खरस्य त्रासोऽभवदिति योजना ॥१॥ रक्षसां सम्बन्धि राक्षसम् । त्रिशिरोदूषणौ हतावित्यनुपङ्गः । बलं सैन्यं हतभूयिष्ठं हतप्रवर टी.आ.की राक्षसं चतुर्दशसहस्रसयाकाः प्रधाना हताः अवशिष्टं सैन्यं प्रेक्ष्येत्यर्थः । विमनाः विगतगर्वावस्थं मनो यस्य स तथा ॥२॥३॥ बलवदत्यन्तंस.२८ नाराचान् । "प्रक्ष्वेडनास्तु नाराचाः" इत्यमरः । रक्तभोजनानिति रक्तरूपितत्वेन रक्तभोजनत्वव्यपदेशः । आशीविपानिव सानिव स्थितान् ॥४॥
स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । हतमेकेन रामेण त्रिशिरोदूषणावपि ॥२॥ तद्वलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३॥ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४॥ ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । चकार समरे मार्गान शरै रथगतः खरः ॥५॥स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्ट्वा रामोपि सुमह द्धनुः॥६॥स सायकैर्दुर्विषहैः सस्फुलिङ्गरिवाग्निभिः। नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥७॥ तद्वभूव शितैर्बाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ८॥ शरजालावृतः सूर्यो न तदा स्म
प्रकाशते । अन्योन्यवधसंरम्भादुभयोः संप्रयुद्धयतोः ॥९॥ शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधुन्वन् अस्त्राणि दर्शयन्, अनुप्रयोगपाटवं दर्शयनित्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥५॥3 रामोऽपि तं दृष्ट्वा बाणेः सुमहद्धनुः सर्वा दिशः प्रदिशश्च पूरयामासेत्यन्वयः॥६॥सः रामः अविवरं नीरन्धम् ॥७॥पाकाशं परितः स्थितमाकाशम्, खर रामयोश्चतुःपाचवांकाशमित्यर्थः । सर्वतः सर्वत्र । अनाकाशम् अनवकाशं बभूव ॥ ८॥ शरमालेति । संरम्भात् कोपात् । “संरम्भः संभ्रमे कोपे" विशिरोदूषणावपि हतौ दृष्ट्वा बासोऽभवदित्यनुषज्यते ॥२॥३॥ हतभूषिष्ठम अल्पावशिष्टम् ॥ ४॥ शिक्षया धनुर्विद्याभ्यासेन । मार्गान् शरसवातप्रक्षेपणादि । प्रकारभेदान् ॥ ५॥ स खरः बाणैर्दिशः पूरयामासेति योजना ॥ ६॥ स रामः सायकैः नभः अविवरं नीरन्धं चकारेति सम्बन्धः ॥ ॥ पर्याकाशं परितोवर्त मानमाकाशम् । अनाकाशं निरवकाशं बभूव । तत्र हेतुः शरसङ्कुलमिति ॥८॥ उभयोः संप्रयुद्धचतोस्सतोः ॥९-११॥
स०-मार्गान् शरसवातप्रक्षेपणादिप्रकारमेदान् । स्थगत इत्यनेन रामस्य पदातित्वेप्यस्य स्थगतत्वमन्याव्यनिति सूचपति ॥ ५ ॥ शरतकुलम् उदकसालमित्र ॥ ८॥
For Private And Personal Use Only