________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
अनिमिषत्वे हेतुमाह आश्चर्यभूतानिति ॥ १३ ॥ अत्रेति । अत्र आश्रममण्डले । महाभागाः महाभाग्याः ऋषयः । सर्वभूतहिते रतम् अतिथिं न्यायतः पूजा ।। हम् । एनं राघवं पर्णशालायां स्वस्वपर्णशालायां सन्यवेशयन् स्थापयामासुः॥१४॥ तत इति । रामस्य सत्कृत्येति पष्ठयापी । “न लोकाव्ययनिष्ठा-" इत्यादिना निषेधात् । सत्कृत्य सत्कारं कृत्वा, कुशलप्रश्नादिकं कृत्वेत्यर्थः । पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तम् । धर्मचारिण ।।
अत्रैनं हि महाभागाः सर्वभूतहिते रतम् । अतिथिं पर्णशालायां राघवं सन्यवेशयन् ॥ १४ ॥ ततो रामस्य सत्कृत्य विधिना पावकोपमाः । आजहस्ते महाभागास्सलिलं धर्मचारिणः ॥ १५॥ मूलं पुष्पं फलं वन्यमाश्रम च महात्मनः । निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन् ॥ १६॥ धर्मपालो जनस्यास्य शरण्यस्त्वं महा
यशाः । पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ १७॥ इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तम् । महाभागा इति सुकृतपरिपाक उच्यते । सलिलम् अाधुचितम् आजहुः ॥ १५॥ मूलमिति । धर्मज्ञाः शेषिणि शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टानलयः, मूर्ध्नि कृताञलय इत्यर्थः। महात्मनः शेषिणो रामस्य । वन्यं मूलादिकमाश्रमं च निवेदयित्वा इमानि भवदीयानि यथेष्टं विनियुक्ष्वेति निवेद्य ततोऽब्रुवन् ॥ १६॥ तनि०-आत्मीयभरसमर्पणमत्रोच्यते ॥ १६ ॥ धर्मपाल इति । धर्मपालः वर्णाश्रम धर्मपालकः । अस्य आर्तस्य मुनिजनस्य शरण्यः शरणार्हः । पूजनीयश्च देवताबुद्ध्या अर्चनाईः । मान्यः राजबुद्ध्या बहुमानाईः । मान्यत्वे हेतुः राजा दण्डधर इति । दण्डस्य निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुर्गुरुरिति ॥ १७ ॥ इवशब्दो वाक्यालङ्कारे ॥ १३ ॥ अब अस्मिन् दिने । महाभागाः ऋषयः॥ १४ ॥ परमपुरुषस्य तव सन्दर्शनेन वयं महाभागा अतिधन्याश्चेति प्रियवचनैस्स त्कृत्य । सलिलं सलिलादिपजाद्रव्यम्, आनीयेति शेषः । आजहुः रामस्य पूजामिति शेषः ॥ १५ ॥ वन्यं बने भवम् । आश्रमं निवासस्थानं च निवेदयित्वा इमानि वस्तूनि देव त्वदीयानीत्युक्त्वा प्राबलयः अयमेवादिपुरुष इति निश्चयबुद्धया सम्बुद्धभक्तिरसेन बद्धाञ्जलयो भक्तिनम्राः भगवन्तं श्रीराममनवन् विज्ञाप यन्ति स्मेत्यर्थः ॥ १६ ॥ विज्ञापनप्रकारमेवाह-धर्मपाल इत्यादिना । धर्मपालः वर्णाश्रमधर्मपालकः। शरण्यः आर्तस्य सर्वलोकस्य रक्षिता । दण्डधरः दुष्ट निग्रहकर्ता । भगवदवताररूपेण गुरुः पूज्यः अादिसत्क्रियापूजाईः। राजा राजरूपेण मान्यः बहुमानाहश्च त्वमसीति शेषः । कुतो ममैतादृशप्रभाव इति शङ्कायां
For Private And Personal Use Only