________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
हार्यम् । तस्य गर्वविशेषयोतनाय इन्द्रस्य विशेषणद्वयम् ॥७॥ प्राणान् तस्येति शेषः। जीवितान्तकैः शबजीवितविनाशकरैः। मार्गलेः बाणैः । सारसः हंसविशेषः॥८॥ सङ्खये युद्धे । शरसंकृत्तमर्मणः बाणच्छिन्नमर्मस्थलस्य । सफेनं प्राणवायुनिर्गमनकालिकफेनसहितम् । रक्तं रक्तवर्णम् । अचिरप्रवृत्त त्वमनेनोच्यते । मेदिनी भूमिः॥९॥ पत्ररथाः पक्षिणः। कायात् देहात् । उत्कृत्य उच्छिद्य। सङ्गताः समशः समवेताः ॥१०॥ मया आहवे अपकृष्टम् ।
अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः। सलिले क्षीरमासक्तं निष्पिबन्निव सारसः॥८॥ निहतस्य मया सङ्ग्ये शरसट्रकृत्तमर्मणः। सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति ॥९॥कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः। प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ॥ १० ॥ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः । मया पकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥११॥ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुविनीतेन वने विक्रम्य निजिता ॥ १२॥ इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः । ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ॥१३॥ तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षी चीरकृष्णाजिनाम्बरौ ॥ १४ ॥ फलमूलाशनौ दान्ती तापसौ धर्मचारिणी । पुत्रों दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५॥ आकृष्टम् । इहेति युद्धसबिधानोक्तिः॥११॥ उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन । विक्रम्य शौर्य कृत्वा ॥ १२ ॥ विशेषतः अतिशयेन । कुद्धस्य कृतक्रोधस्य ॥ १३ ॥ ननु व्यक्तमाल्यादि केन त्वमेवंरूपा विरूपिता' इति पृच्छन्तं खरं प्रति 'पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ " इत्येव । वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किमर्थ कथयतीति चेत्, अस्या वैरूप्ये जातेऽपि वैराग्याजननात् काममोहातिशयेन भात्रादिसन्निधानेपि हद्वतमेवोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टवतामयमेव स्वभावः, मतएव यानि रामस्थ चिह्नानि ' इति पृष्टवती सीतां प्रति “त्रिस्थिरस्त्रि सारसो इंसः ॥ ८॥ रक्तं रक्तवर्ण रुधिरम् ॥ ९॥ पञ्चरथाः पक्षियः । सङ्गता मिश्रिताः ॥ १०॥ मयापकृष्टम् आक्रान्तं मयासह कृतविरोधमिति यावत् ॥११॥ विक्रम्य शौर्य गत्वा ॥ १२ ॥ १५॥"मतं पक्ष्याम्यह लोके परोक्षमपि वा नरः । स्वामित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥" इत्युक्तेः सर्वलोकस्पृहणी
Ke
For Private And Personal Use Only