SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir प्रवृत्तिं मुनिः परिहसति-सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यम् । विरूपाक्षी विकटनेत्री । सुकेशं नीलकेशम् ॥ १० ॥ प्रीतिरूपं प्रियरूपम् । प्रीयत इति प्रीतिः। विरूपा विकटरूपा । सुस्वरं स्निग्धगम्भीरस्वरम् । तरुणं युवानं सौम्यं चेत्यर्थः । दारुणेति प्रतियोगिनिर्देशात् । दक्षिणम् ऋजुभाषिणम् । वाम || भाषिणी वक्रभाषिणी ॥११॥ न्यायवृत्तम् उचिताचारम् । शरीरजो मन्मथः ॥१२॥ जटीति तापसरूपेण जटी । कामुकरूपेण सभार्यः । क्षत्रियरूपेण 'प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ११ ॥ न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना । शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥ १२ ॥ जटी तापसरूपेण सभार्यः शरचापधृत् । आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ १३ ॥ एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः । ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ १४ ॥ अनृतं नहि रामस्य कदाचिदपि सम्मतम् । विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ॥ १५ ॥ आसीद्दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १६ ॥ भ्राताऽयं लक्ष्मणो नाम यवीयान् मामनुव्रतः ॥ १७ ॥ इयं भार्या च वैदेही मम सीतेति विश्रुता । नियोगात नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥ १८ ॥ धर्मार्थं धर्मकांक्षी च वनं वस्तु मिहागतः । त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा ॥ १९ ॥ शरचापधृत् । राक्षससेवितम् एतद्रूपास हैः सेवितमित्यर्थः ॥ १३ ॥ शूर्पनख्येति छान्दसौ ङीपणत्वाभावौ । ऋजुबुद्धितया कुटिलेष्वप्यकुटिल बुद्धितया आश्रमस्थस्य तपोवनस्थस्य ॥ १४ ॥ १५ ॥ यवीयान् कनिष्ठः । अनुव्रतः अनुसरणं व्रतं यस्य सः ॥ १६ ॥ १७ ॥ वैदेही विदेहराजपुत्री । मातुः कैकेय्याः । यन्त्रितः नियतः, चोदित इति यावत् ॥ १८ ॥ धर्मकाड़ी पितृवाक्यपालनरूपधर्मकाङ्क्षी । धर्मार्थं तपोरूपधर्मसिद्धयर्थम् । वनं वस्तुं यन्त्रितः सन्निहागत इत्यन्वयः । कासीति नामजातिप्रश्नः । कस्येति पित्रादिविषयः प्रश्नः ॥ १९ ॥ प्रीतिरूपम् आनन्दमदरूपम्। दारुणा निर्घृणा । तरुणं सपृणम् । दक्षिणम् ऋजुभाषिणम् । वामभाषिणी वक्रोक्तिशीला । न्यायवृत्तं शास्त्रविहिताचारम। शरीरजसमा विष्टा मदनाकुला ॥ ११-१७ ॥ नियोगात् आज्ञाबलाव । यन्त्रितः प्रचोदितः ॥ १८ ॥ धर्मकांक्षी पितृवाक्यनिर्वहणरूपधर्माभिलाषी । धर्मार्थ तस्यैव धर्मस्य For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy