________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चा.रा.भ.
॥३४॥
टी.अ.का. स. ८
णिजन्तात् कर्मणि लट्॥२२॥ उक्तेऽथे हेतुमाह-नहीति। भामिनि कोपने! "कोपना सैव भामिनी" इत्यमरः । अनयः नीतिविरोधः॥२३॥ तस्मादिति। राज्यतन्त्राणि राज्यपरिपालनादिव्यापारान् । “तन्त्रं स्वराष्ट्रव्यापारे" इति वैजयन्ती ॥ २४ ॥ एवं राज्यभ्रंशमुक्त्या राज्यालाभेऽपि राज्यसुखं भरत स्यास्तीति कैकेय्योक्तं परिहरति-असाविति । अत्यन्तनिर्भग्नः सुतरां प्रच्याषितः । वत्सले पुत्रवत्सले ! ॥२५॥ ज्येष्ठे वर्तमाने भरतस्य राज्ययोग्यता
न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि । स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत् ॥ २३ ॥ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः। स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि ॥२४॥ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति। अनाथवत् सुखेभ्यश्च राजवंशाच्च वत्सले ॥२५॥ साहं त्वदर्थेसम्प्राप्तात्वं तु मांनावबुध्यसे । सपत्नि वृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि ॥२६॥ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम् । देशान्तरं वा नयिता लोका
न्तरमथापि वा ॥२७॥ बाल एव हि मातुल्यं भरतो नायितस्त्वया। सन्निकर्षाच्च सौहार्द जायतेस्थावरेष्वपि ॥२८॥ भावात् किंकुम इत्यवाह-सेति । त्वदर्थे त्वत्पुत्रराज्यभ्रंशपरिहारकथनार्थमित्यर्थः । सपत्रिवृद्धाविति “ड्यापोः-” इतिहस्वः । या त्वं सपत्रिवृद्धौ प्रदेयं पारितोषिकं दातुमिच्छसि सात्वं नावबुध्यस इत्यन्वयः ॥२६॥ असावत्यन्तनिर्भग्न इत्युक्तं विवृणोति-ध्रुवमित्यादिना ॥ २७॥ रामकर्तृकं । भाव्यनिष्टं प्रदर्य कैकेयीकृतमप्यनर्थ दर्शयति-बाल इति । मातुल्यं मातुलसम्बन्धिगृहमित्यर्थः । नायितो हि प्रापितः खलु । अनेन का हानिरित्या शङ्कय हानिमेव दर्शयति-सन्निकर्षादिति । स्थावरेष्वपि वृक्षगुल्मादिस्थावरेष्वपि । सन्निकर्षाच अत्यन्तसमीपावस्थानाच्च सौहार्द जायते अन्योन्य राजवंशात्परिहास्यते निर्वास्यते । भरतस्य तत्वतानां च राज्यप्राप्तिराईव नास्तीति भावः॥ २२ ॥ ननु श्रीरामानन्तरं रामसुतानां भरतसतानां च राज्य प्राप्तिर्भवत्वित्याशङ्कच सर्वस्वातन्त्र्ये राज्यं शिथिलं भवदित्याह-नहीति । अनया राज्यशैथिल्यरूपः ॥ २३ ॥ तस्मादिति । राज्यतन्त्राणि राज्याङ्गानि हस्त्य वादीनि ॥ २४ ॥ असाविति । वत्सले हे पुत्रवत्सले ! ॥ २५ ॥ साहमिति । या त्वं सपत्रिवृद्धौ सत्यां प्रदेयं पारितोषिकं दातुमिच्छसि, ततो मां नावबुध्यस इति
M योजना । (अर्हसीति पाठे-अहेवाचरसि इच्छसीत्यर्थः ) ॥ २६ ॥ ध्रुवमिति । नयिता नयिष्यति ॥ २७ ॥ रामकृतं भाव्यनिष्टं प्रदर्य कैकेयीकृतमप्यनर्थ प्रदर्श
सत्य-भामिनि तेजस्विनि ! ॥ ११॥ विषम-वत्सले सर्वत्र दयाशीले ! ॥ २५ ॥ अर्हसि आहेबाचरसि इण्डसीप्यर्थः ॥ २६ ॥
॥३
॥
For Private And Personal Use Only