________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
कामात त्वद्विपयोहात् । लोभात् त्वब्याजेन राज्यकरणलोभात् । मातृवत् मातरीव ॥ १९ ॥ एवमिलि । तेजसादित्यसङ्काशमित्यनेनानिवर्त्यप्रतिज्ञत्व मुच्यते । प्रतिपञ्चन्द्रदर्शनमित्यनेन क्रमेण राज्ये पूर्णप्रतिष्ठत्वं सर्वैरपि पूज्यत्वं च द्योत्यते ॥२०॥ अथ मध्यस्थेनोभयोहितपरेण वसिष्ठेन नियुक्तो।
एवं बुवाणं भरतः कौसल्यासुतमब्रवीत्। तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २०॥ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥२१॥ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २२॥ स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २३ ॥ फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन वसन वै नगराबहिः ॥२४॥ तव पादुकयोयस्तराज्यतन्त्रः परन्तप । चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥२५॥ तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदगबवीत् ॥ २६॥ मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥२७॥ इत्युक्त्वा ऽश्रुपरीताक्षी भ्रातरं विससजे ह ॥२८॥ भरतःप्रार्थयते-अधिरोहेत्यादिना । अतएव भरद्वाजं प्रति भरतो वसिष्ठोक्तिमनुवदिष्यति-"एते प्रयच्छ संहृष्टः पादुके हेमभूषिते" इति ॥२१॥ अथ रामः स्वप्रतिज्ञा भरतकृतप्रपत्तिं च निर्वहन् तथाकरोति-स इति । प्रायच्छद्गृहाणेत्यन्वयुत ॥ २२ ॥ स इत्यादिसाधलोकत्रयमकान्वयम् । कामात् त्वद्विषयोहाव । लोभात्त्वद्याजेन राज्यकारणलोभात् । मातृवत् मातरीव ॥ १९ ॥ तेजसादित्यसङ्काशमित्यनेन परैरप्रधृष्यत्वम् , प्रतिपञ्चन्द्रमित्यनेन सर्वैरपि पूज्यतया दृश्यमानत्वं वर्द्धिष्णुत्वं च द्योत्यते ॥२०॥ अत्र रामं प्रति भरतकृतपादुकाप्रार्थनं प्रातीयते । तत्र राम प्रति वसिष्ठनियोगानन्तर मेवेत्यवगन्तव्यम् । ' एते प्रयच्छ संहृष्टः पादुके हेमभूषिते' इत्युपरि भरद्वाजं प्रति भरतेनानूद्यमानत्वात् ॥ २१ ॥ २२॥ चतुर्दश हीत्यादि श्लोकद्वगमेक स-हे आर्य ! अधिरोह पादुकयोः पादौ स्थापयेत्यर्थः । एते च पादुके मरतेन सहानीते इति चोप्यम् । अन्यथा रामस्थ वस्त्राणि गृहीत्वाऽजिनानि दत्तक्त्याः कैकेय्या रामाय हेमपादुकादानस्थानुचितत्वात् ॥२१॥
For Private And Personal Use Only