________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पराक्रमम् । आसाद्य व्यनीनशत् विनाशं प्राप्तवानित्यर्थः । राक्षसत्वात् कल्माषपादेन स्वपुत्रएव विनाशित इत्यर्थः ॥ २७-३१ ॥ तस्येति । दायादः सुतः । “ दायादो सुतबान्धवो " इत्यमरः ॥ ३२ ॥ इक्ष्वाकूणामिति । पूर्वजे विद्यमाने अवरः कनिष्ठपुत्रो राज्ये नाभिषिच्यते
अम्बरीषस्य पुत्रोऽभूनहुषःसत्यविक्रमः। नहुषस्य च नाभागः पुत्रः परमधार्मिकः ॥ ३०॥ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । अजस्य चैवधर्मात्मा राजा दशरथः सुतः ॥३१॥ तस्य ज्येष्ठोऽसि दायादो राम इत्यभि विश्रुतः। तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप॥३२॥ इक्ष्वाकूणां हि सर्वेषां राजाभवति पूर्वजः। पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥ ३३ ॥ स राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि । प्रभूतरत्नामनु शाधि मेदिनी प्रभूतराष्ट्रां पितृवन्महायशः॥३४॥ इत्या. श्रीमदयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥११॥ वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः। अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥ ३॥ पुरुषस्येह जातस्य भवन्ति
गुरवस्त्रयः। आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २॥ किंतु ज्येष्ठ एवति अन्वयः ॥ ३३ ॥ स राघवाणामिति । स त्वं आत्मनः सम्बन्धिनां राघवाणां सनातन परम्परयागतं कुलधर्म ज्येष्ठाभिपेचनरूपम् अद्य भवन्तमारभ्य न विहन्तुमर्हसि । अन्येन रक्षितुं चाशक्यमित्याह प्रभूतेति । रत्नानि श्रेष्ठवस्तूनि । प्रभूतराष्ट्रा बहुविधावान्तरजनपदयुक्ताम् ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याव्याख्याने दशोत्तरशततमः सर्गः ॥११॥ अथ रामनिवर्त्तनोपायान् पुनरुपन्यस्य निरस्यति एकादशोत्तरशततमे-वसिष्ठस्त्वित्यादिना ॥ १॥ एवं कुलधर्मोपपादनेपि सर्व तत्पितनियोग कल्माषपादः राक्षसभावेन स्वसैन्यं स्वपुत्रं शवणमपि भाक्षितवानिति कथा ॥ २७-३१॥ दायादः सुतः ॥ ३२ ॥ पूर्वजे विद्यमाने अवरः कनिष्ठः पुत्रः राज्ये नाभिषिच्यते किन्तु ज्येष्ठ एवाभिषिच्यते ॥ ३३ ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीराम आयोध्याकाण्डव्याख्यायां दशोत्तरशततमः सर्गः ॥११॥ मन्वादीनारभ्यैतावत्पर्यन्तं ज्येष्ठेनैव राज्य परिपाल्यत इति श्रुतेऽपि तदनङ्गीकारमालोच्य पितृवचनादपि पितुस्तद च गुरोर्मम वचनं करणीयमिति वक्तमुपक्रमते
For Private And Personal Use Only