________________
She Malavi Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
दिना । अनार्य एव सन्नार्यसङ्काशः। शौचादीन एवं सन् शुचिरिख । लक्षण्यवत् शिष्टलक्षणयुक्ततुल्य एव सन् अलक्षण्यः लक्षणहीनः। शीलवानिव सन् दुःशीलः। अहं शुभं हित्वा शुभसाधनं वैदिकधर्म हित्वा । लोकसङ्करं लोकसङ्करकारकम् । क्रियाविधिविवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् । इमं त्वदुक्तमधर्म धर्मवेषेण धर्मत्वेनाभिपत्स्ये स्वीकरिष्यामि यदि दुर्वृत्तं मां चेतयानः ज्ञानवान् कः पुरुषः लोके बहुमंस्यति न कोपीत्यर्थः ॥५-७॥
कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । अनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥८॥ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते । यद्वत्ताः सन्ति राजानस्तद्वत्ताः सन्ति हि प्रजाः ॥९॥ सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १०॥ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकस्मिन् परमं गच्छति क्षयम् ॥ ११ ॥ न केवलं बहुमानहानिः परलोकहानिश्चेत्याह-कस्येत्यादिना । अहं हीनप्रतिज्ञया वनवासप्रतिज्ञारहितया अनया वृत्त्या परोक्षं पृष्ठतः कुर्विति। त्वदुक्तया वृत्त्या वर्तमानःसन्, वृत्तं त्वदुक्ताचरणम् । कस्य धास्यामि आधास्यामि, उपदेक्ष्यामीत्यर्थः। दास्यामीति पाठान्तरम् । केन वा साधनेन स्वर्ग माप्नुयामिति योजना ॥८॥ त्वदुक्ताचरणे सर्वलोकस्यापि परलोकहानिः स्यादित्याह-कामवृत्त इत्यादिना ॥९॥ सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्श यन् सत्यपरत्वरूपस्वमतं स्थापयति-सत्यमेवेत्यादिना । अनृशंसं भूतानुकम्पाप्रधानं सनातनं च राजवृत्तं सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात् । राज्यं राज्यस्यजनजातं सत्यात्मकं सत्यरूपम्, सत्यप्रधानमिति यावत् । लोक इति जात्येकवचनम् ॥ १० ॥ ऋषय इति । मेनिरे।
कस्येति । अहं हीनप्रतिज्ञया चतुर्दशवर्षावधि वनवासप्रतिज्ञारहितया अनया वृत्या “प्रत्यक्ष यत्तदातिष्ठ परोक्ष पृष्ठतः कुरु" इति त्वदुक्तया वृत्त्या । वर्तमान Mस्सन् । वृत्तं त्वदुक्ताचरणम् । कस्य दास्यामि कस्योपदेष्यामीत्यर्थः । केन साधनेन वा स्वर्गमाप्नुयामिति योजना ॥ ८॥ त्वदुक्काचरणे सर्व जनस्यापि परलोकहानिः
स्पादित्यत आह-कामवृत्त इति ॥९॥ सत्यप्रशंसापूर्वकं सत्यनिष्ठां दर्शयन सत्यरूपं स्वमतं स्थापयति-सत्यमेवेत्यादिना । अनुशंसं भूतानुकम्पाप्रधानं सनातन च राजवृत्तं च सत्यमेव सत्यरूपमेव । तस्माद्राजवृत्तस्य सत्यरूपत्वात राज्य राज्यस्थजनजातम् । सत्यात्मकं सत्यरूपम् सत्यप्रधानमित्यर्थः । लोक इति जात्येक वचनम् ॥ १०॥ परमं क्षयम् उत्कृष्टस्थानम् ॥ ११-१३ ॥
For Private And Personal Use Only