________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
प्रचारित्यर्थः ॥२१-२४॥ ते मुखं प्रेक्ष्य स्थितामिति शेषः । मां मनसि स्थितः सन्निति शेषः । आश्रयमाश्रयभूतं काष्ठादिकम् ॥ २५-२८॥
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् । काञ्चनं रजसा ध्वस्त क्लिष्टं चन्द्रमिवाम्बुदैः ॥२५॥ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् । भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥२६॥ ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः। पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥२७॥ पुरोहितस्यानिसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः। प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥२८॥ ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः । जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥२९॥ उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् । श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजा पतिम् ॥ ३०॥ किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति । इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥३१॥ स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः । वृताः सुहाद्भिश्च विरेजुरध्वरे यथा सदस्यः सहितास्त्रयोऽग्नयः ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमदयोध्याकाण्डे व्युत्तरशततमः सर्गः ॥ १०३ ॥ ततो जघन्यं वसिष्ठरामोपवेशादनन्तरसुपोपविष्टः । “प्रसमुपोदः पादपूरणे" इति द्विवचनम् ॥ २९ ॥ कृताञलिः अभूदिति शेषः ॥३०॥ इतीवेत्यत्र इवशब्दो वाक्यालङ्कारे ॥ ३१ ॥३२॥ इति श्रीगोविन्द श्रीरामायणभू. पीताम्बरा. अयोध्याकाण्ड युत्तरशततमस्ससर्गः ॥ १०३॥ मुखमिति । प्रेक्ष्य स्थितायाः, ममेति शेषः । शोको मनसि स्थितस्सन्निति शेषः । आश्रयम् आश्रयभूतकाष्ठादिकम् ॥ २६-२८ ॥ तत इति । जघन्यं वसिष्ठरामो पवेशनानन्तरम् । उपोपविष्टः कृताञ्जलिः, अभूदिति शेषः ॥२९-३२॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्याया। व्युत्तरशततमः सर्गः ॥ १०३॥
For Private And Personal Use Only