SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir अथेति । स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखा इत्यर्थः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य । प्रषाविताः शीघ्रगतियुक्ताः॥३६॥ सुकुमारा इति । हयैरित्यादिभिरुक्तानां त्रयाणां विशेषणम् । सुकुमारत्वाभावे दुःखितं रामं प्रति पयामेव गन्तव्यत्वात् ॥ ३७॥३८॥ भ्रातृणामिति । एषां अथ वासान् परित्यज्य तं सर्वेऽभिमुखाःस्वनम् । अप्येकमनसो जग्मुर्यथास्थानं प्रधाविताः॥ ३६ ॥ हयैरन्ये गजैरन्ये स्थैरन्ये स्वलंकृतैः । सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः ॥ ३७॥ अचिरप्रोषितं रामं चिरविप्रोषितं यथा । द्रष्ट्रकामो जनः सर्वो जगाम सहसाश्रमम् ॥ ३८ ॥ भ्रातृणां त्वरितास्तत्र द्रष्टकामाः समागमम् । ययु बहुविधैर्यानः खुरनेमिस्वनाकुलैः ॥ ३९ ॥ सा भूमिर्वहुभिर्यानैः खुरनेमिसमाहता। मुमोच तुमुलं शब्दं द्यौरिवाभ्र समागमे ॥ ४०॥ तेन वित्रासिता नागाः करेणुपरिवारिताः। आवासयन्तो गन्धेन जग्मुरन्यदनं ततः॥४॥वराह वृकसङ्घाश्च महिषाः सर्पवानराः। व्याघ्रगोकर्णगवयाः वित्रेसुः पृषतैः सह ॥ ४२ ॥ रथाङ्गसाह्वा नत्यूहाः हंसाः कारण्डवाः प्लवाः। तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः॥४३॥ तेन शब्देन वित्रस्तैराकाशं पक्षिभि वृतम् । मनुष्यैरावृता भूमिरुभयं प्रबभौतदा॥४४॥ततस्तं पुरुषव्याघ्रं यशस्विनमारन्दमम् । आसीनं स्थण्डिले रामं ददर्श सहसा जनः॥४५॥ यानैर्गमनं दर्शनत्वरया । ययुर्वहुविधैर्यानः खुरनेमिसमाहताः इति पाठः । ययुर्बहुविधैर्युक्तरिति पाठे-युक्तैः सजैः, यानेरिति शेषः ॥३९॥४०॥ तेनेति । आवासयन्तः मदगन्धेनावासयन्तः । एतेन वनगजानामपि रामदर्शनहर्षों द्योत्यते ॥ ११ ॥ वराहेति । गोकर्णः गोरिख करें यस्य स गोकर्णः ।। महापृषतविशेषः ॥ १२॥ रथाङ्गेति । नत्यूहाः जलरङ्गवः । “नत्यूहो जलरङ्कः स्यात्" इतिहलायुधः । पूवाः स्थूलबकविशेषाः ॥४३-१५॥ तं स्वनमभिमुखाः स्वनोत्पत्तिदिगभिमुखाः । यथास्थानं शब्दोत्पत्तिप्रदेशमनतिक्रम्य ॥ ३६ ॥ हयैरिति । सुकुमारा इत्येतदम्पशब्दब्रयेण प्रत्येकमभिसम्बध्यते । युक्तैः सजे, यानैरिति शेषः॥ ३७-१०॥ तेन शब्देन मदगन्धेन आवासयन्तः आ समन्ताद्वासयन्तः ॥४१॥ वराहेति । गोरिव कर्णावस्य गोकर्णः, हरिण चाविशेषः ॥ ४२ ॥ प्रवाः स्थूलबकविशेषाः । नत्यूहाः जलकुकुटम् ॥ ४३-४५ ।। - For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy