________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandie
बद्धानि वृन्दानि येषां ते वृन्दवृन्दाःतैः। कुतूहलजनैः वृता राजमार्गाः अभिसम्बाधा निबिडा बभूवुरिति योजना। वृन्दवृन्दमितिपाठे-वृन्दवृन्दं यथाभवति । तथा, स्थितैरिति शेषः ॥१६॥ जनवृन्दति। जनवृन्दान्येव ऊर्मयः तेषां सङ्घर्षः अन्योन्यघट्टनं, हर्षः आनन्दोद्रेकः ताभ्यां जनितः स्वनोऽस्यास्तीति । स्वनवान् तस्य । एतेन सागरोपमा समर्थिता ॥ १७॥ सिक्तेति । तदहः तस्मिन्नहनि । वनमालिनी अलङ्कारार्थ विरचितकमुककदल्यादिवनपति।
जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा । बभूव राजमार्गस्य सागरस्येव निस्वनः ॥१७॥ सिक्तसंमृष्टरथ्या हितदहर्वन मालिनी। आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा॥ १८॥ तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः । रामा भिषेकमाकांक्षन्नाकांक्षदुदयं रखेः॥ १९॥ प्रजालङ्कारभूतंचजनस्यानन्दवर्द्धनम् । उत्सुकोऽभूज्जनोद्रष्टुंतमयोध्या महोत्सवम् ॥२०॥ एवं तं जनसम्बाधं राजमार्ग पुरोहितः। व्यृहन्निव जनौचं तं शनै राजकुलं ययौ ॥ २१ ॥
शुभ्राभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः । सर्मायाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥२२॥ युक्तेति यावत् ॥१८॥ तदति । सस्त्रीबालाबलः अबलाः बलरहिताः वृद्धा इति यावत् । रामाभिषेकमाकासन्नाकाङ्गदुदयं खेरिति । रामाभिषेकार्थ उदयमाकाइदित्यर्थः । श्वो रामाभिषेक इति वार्ता यदा समजनि तदाप्रभृति रामाभिपेकादरातिशयेन आहारनिद्रादिव्यापारान् विहाय परदिवससूर्यो दयमाकाङ्कादति भावः ॥१९॥ प्रजालङ्कारभूतमिति । प्रजालङ्कारभूतं प्रजालङ्करणहेतुभूतं प्रजालङ्कारप्रचुरामिति वा ॥२०॥ एवामिति । राजमार्ग पश्यन्निति शेपः। तं जनौचं व्यूहन्निव रामाभिषेकजनितानन्दनिर्भरं जनौषं तत्रतत्र समूहीकुर्वन्निव शनैः राजकुलं राजगृहं ययौ ॥ २१ ॥२२॥ पाठे-क्रियाविशेषणम् । अतिशयेन बन्दीभवनं यथा भवति तथा । कुतहलजनैः-रामाभिषेकदर्शनकुतूहलसंपन्नजनैरिति मध्यमपदलोपः। वृताः युक्ताः । अयोध्यायां राजमार्गाः अभिसंबाधाः संमर्दयुक्ताः बभूवुरिति योजना ॥ १६ ॥ जनेति । जनवृन्दोमिसंघर्षहर्षस्वनवतः जनवृन्दान्येव ऊर्मयः तेषां संघर्षः अन्योन्यसंघर्षणम् । हर्ष आनन्दोद्रेकः । ताभ्यां स्वनोऽम्यास्तीति स्वनवान, तस्य राजमार्गस्य निस्वनः ॥ १७ ॥ सिक्तेति । सिक्ता जलसिक्ताः । संमष्टाः शोधिताः । रथ्या वीथयो । यस्यास्सा तथोक्ता । तदहः तस्मिन्नहानि । वनमालिनी कदलीक्रमुकादिविरचितश्रेणीयुक्ता।समुच्छ्रितगृहध्वजा समुच्छ्रितगृहेषु ध्वजा यस्यास्सा तथोक्ता। अयोध्या आसीत् ॥ १८ ॥ तदेति । सखीवालावला अबला बलरहिताः, वृद्धा इति यावत् । जनः रामाभिषेकमाकांक्षन वो रामाभिषेक इति वार्ताश्रवणाइवेरुदयमाकांक्ष दित्यर्थः ॥ १९ ॥ प्रजालङ्कारभूतं प्रजालङ्कारहेतुभूतम् ॥ २०॥ एवमिति । राजमार्ग पक्ष्यन्निति शेषः । व्यूहत्रिव विभजन्निव ॥ २१-२३ ॥
22
For Private And Personal Use Only