________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
लक्ष्मणेति । द्वितीयमन्तरात्मानं द्वितीय प्राणम् ॥४३॥ सौमित्र इति । भोगान् भोग्यपदार्थान् । इष्टान् अभिमतान् । राज्यफलानि अनर्घ्यरत्र वस्त्राभरणादीनि ॥४४॥ इतीति । सीतां चाभ्यनुज्ञाप्य, मातृभ्यामितिशेषः ॥४५॥ इति श्रीगो श्रीरा पीता. अयोध्याकाण्ड० चतुर्थः सर्गः ॥४॥
लक्ष्मणेमां मया साई प्रशाधि त्वं वसुन्धराम् । द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ ४३॥ सौमित्रे भुङ्क्षय भोगांस्त्वमिष्टान् राज्यफलानि च । जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च। अभ्यनुज्ञाप्य सीतां च जगाम म निवेशनम् ॥ ४५ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः॥४॥ संदिश्य रामं नृपतिःश्वो भाविन्यभिषेचने । पुरोहितं समाहूय वसिष्टं चेदमब्रवीत् ॥ १॥ गच्छोपवास काकुत्स्थं कारयाद्य तपोधन । श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥२॥ तथेति च सराजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ ३॥ उपवासयितु राम मन्त्रवन्मन्त्रकोविदः। ब्राह्म रथवरं युक्त
मास्थाय सुदृढवतः ॥४॥ स रामभवनं प्राप्य पाण्डराभ्रघनप्रभम् । तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥५॥ अथोपवासस्य पुरोहितसङ्कल्पमन्त्रादिसाध्यत्वात्पुरोहितं संदिशति पञ्चमे-संदिइयेति । व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ १॥ गच्छेति । काकुत्स्थ समुपवासं कारय। "हकारन्यतरस्याम्" इति विकल्पेन काकुत्स्थशब्दस्य कर्मसं ॥२॥ तथेतीति ॥३॥ ब्राझं ब्राह्मणवहनयोग्यम्, युक्तं वाजिभि।
युक्तम्, आस्थाय ययाविति पूर्वेण सम्बन्धः ॥ ४॥ स इति । पाण्डराभ्रधनप्रभं पाण्डराभ्रमूर्तसदृशप्रभम् । “घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निर दशरथेन स्वस्मिनिवेशितराज्यभोगं सौभ्रात्रातिशयेन लक्ष्मणायत्तं करोति-लक्ष्मणेति । अन्तरात्मानम् प्राणम् ॥ ४३ ॥ सौमित्र इति । भोगान् भोग्यपदार्थान् । राज्यफलानि अनर्यवस्त्राभरणादीनि । जीवितं राज्यमन्यत्सर्वं च त्वदर्थमेव अभिषेकसमये प्रार्थये, अन्यथा सर्व निष्प्रयोजनमेवेति भावः ॥४४॥ इतीति । अभ्यनु ज्ञाप्य सीता सीतायै अनुज्ञा दापयित्वा । मातृभ्यामिति शेषः ॥४५॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्वदीपिका अयोध्याकाण्डव्याख्यायां चतुर्थः सर्गः॥४॥ मंदिश्य व्रतोपवासादिकं कुर्वित्यनुज्ञाप्य ॥ १-३॥ उपवासयितुमिति । ब्राह्मं ब्राह्मणारोहणयोग्यम् । युक्तं सजीकृतम् । ययाविति पूर्वेणान्वयः ॥ ४॥ स इति।
२०
For Private And Personal Use Only