________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥२६॥
अश्रद्धेयमिति । इदं रामस्य तृणशय्याशयनादिकम् अश्रद्धेयम् । लोके पश्यामि " लोक दर्शने" इति धातुः । तत्र हेतुमाह न सत्यमिति । किञ्च मे टी .अ.का. भावः हृदयं मुह्यते खलु मुह्यति किमु । रामस्य भूमिशयनश्रवणादिकं भ्रमो वेत्यर्थः । अथवा अयं पूर्वोक्तश्रवणम् । स्वप्रापेक्षया पुल्लिङ्गत्वम् । स्वप्न इति मे मतिः मतम्, सिद्धान्त इत्यर्थः । कथमन्यथा सर्वमिदमसम्भाव्यं सम्भाव्यत इति भावः ॥ १० ॥ नेति । कालेन कालात् । दैवतं बलवत्तरं ना
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा। मुह्यते खलु मे भावःस्वप्नोऽयमिति मे मतिः॥१०॥न नूनं दैवतं किञ्चित् कालेन बलवत्तरम् । यत्र दाशरथी रामो भूमावेव शयीत सः॥११॥ विदेहराजस्य सुता सीता च प्रियदर्शना। दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२॥ इयं शय्या मम भ्रातुरिदं हि परिवर्तितम्। स्थण्डिले कठिने सर्व गात्रैर्विमृदितं तृणम् ॥ १३॥ मन्ये साभरणा सुप्ता सीतास्मिन् शयनोत्तमे । तत्रतत्र हि दृश्यन्ते सक्ताः
कनकबिन्दवः ॥१४॥ उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा। तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः॥१५॥ नूनं काल एव बलीयानित्यर्थः । यत्र यस्मात् दाशरथिः दशरथपुत्रोपि भुमावेव शयीत तस्मादित्यर्थः ॥ ११॥ विदेहराजस्येति । प्रियदर्शना अत दत्यर्थः। दयिता रामस्य प्राणेभ्योपि प्रेयसी शयिता शयितवती । कतरिक्तः। हन्तेति शेषः॥१२॥ इयमिति । परिवर्तितं परिवर्तनं स्वापकाले श्रमातिशयादितस्ततः शरीरपरिवर्तनपरम् । परिवर्तनज्ञापकमाह स्थण्डिल इति । स्थाण्डिले भूतले कठिनस्थलत्वात् गात्रैःविमृदितं क्षुण्णं तृणम् इद ।। मित्यनुषङ्गः ॥१३॥ मन्य इति । साभरणा सुप्ता मार्गश्रमादाभाणमनुन्मुच्य सुप्तवती । शयनोत्तमे भर्तृशय्यात्वादितरतल्पेभ्यः श्रेष्ठतमे । साभरणा सुप्तेत्यत्र सूचकमाइ तत्रतत्रेति । तत्रतत्र तृणेषु सक्ताः कनकबिन्दवः जाम्बूनदाभरणनिर्गलिताः सूक्ष्मरेणवः ॥१४॥ उत्तरीयमिति । इह कुशाग्रेषु वराणामुत्तमेषु । उषित्वा शयित्वेत्यर्थः । वराभरणनिस्वनैः परिचारिकाणां नूपुराद्याभरणानां शिञ्जितैः स्तुतिभिश्च प्रतिबोधितः महीतले कथं शेत इति पूर्वेण सम्बन्धः ॥ ५-१२ ॥ इयमिति । गात्रैः करचरणाद्यवयवैः ॥ १३ ॥ १४ ॥ उत्तरीयमिति । सीतया धृतमिति शेषः । यद्वा षष्टयर्थे तृतीया ॥ १५॥
विष०-सर्व गात्रं तृणैर्विदितं क्षुण्णमिति सम्बन्धः ॥ १३ ॥
Aal॥२६
॥
For Private And Personal Use Only