________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शवपि । समूरुश्चेति हरिणा अमी अजिनयोनयः॥" इत्युक्तकदल्याद्यजिनं विवक्षितम् । वरास्तरणसञ्चये वराणि अमूल्यानि आस्तरणानि येषु पर्य्य |
केषु तेषां सञ्चये समूहे । पर्यङ्कानां बहुत्वं शीतोष्णादिकालोचितान्तहशिरोगृहादिवाहुल्यात् । यदा माईवातिशयायानेकास्तरणत्वम् । अतिमृदुत्वा । दजिनस्योपर्यास्तरणत्वम् ॥ ४॥ प्रासादेति । प्रासादायविमानेषु विमानतुल्यप्रासादशिखरेषु । वलभीषु कूटागारेषु “कूटागारे तु वलभी" इति पेज यन्ती। हैमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु चित्रकम्बलादिशालिषु ॥५॥ पुष्पसञ्चयचित्रेषु चित्रपुष्प प्रासादाग्रविमानेषु वलभीषु च सर्वदा। हैमराजतभौमेषु वरास्तरणशालिषु ॥५॥ पुष्पसञ्चयचित्रेषु चन्दनागरु गन्धिषु । पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥६॥ प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ॥७॥ गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः । मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥८॥
वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः । गाथाभिरनुरूपाभिस्तुतिभिश्च परन्तपः॥९॥ समूहेषु । चन्दनागरुगन्धिषु चन्दनागरुधूपगन्धिषु । पाण्डराध्रप्रकाशेषु तद्वद्धवलेषु । शुकसङ्घरुतेषु शुकसमूहनादवत्सु । अर्शआदित्वादचमत्वर्थीयः ॥६॥प्रासादवरवर्येषु प्रासादवराणामुत्तमेषु । शीतवत्सु शैत्यवस्तु । "शीतं गुणे तद्वत्"इत्यमरः। सुगन्धिषु घनसारादिभिरिति शेषः। उषित्वाशयित्वेत्यर्थः। उपरि प्रतिबोधोक्तेः । मेरुतुल्यत्वे हेतुः कृतकाञ्चनभित्तिष्विति ॥७॥ गीतवादित्रनिषैिः गीतैस्तदनुगुणवीणादिरावैः। वराभरणनिस्वनैः परिचारिका पाणिचरणनूपुरकङ्कणाद्याभरणशिञ्जितैः। मृदङ्गवरशब्दैः मर्दलविशेषध्वनिभिश्च सततं प्रतिबोधितः। अथ प्रबोधनानन्तरम् । काले प्रातःकाले।वन्दिभिः कर्तृभिः सूतमागधेश्च । गाथाभिः गद्यविशेषैः (पद्यविशेषः ) । स्तुतिभिः स्तोत्रप्रबन्धैश्च वन्दितः स्तुतः। “वदि अभिवादनस्तुत्योः" इति धातुः। परन्तपः अन्यराजशिक्षणपरो रामः ( अथ राज्यशिक्षणपरो रामः ) कथं भूमो केवलायां शेते कथं श्वापदरवैः प्रतिबोध्यते कथमेकाकी तिष्ठतीति चोपस्कार्यम् । गम्यमानत्वादप्रयोगः। “यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः॥” इत्यादिवत् ।।८॥९॥ च्छदेन संस्तीणे, अत्राजिनशब्देन कदल्यादिमृगविशेषाजिनं विवक्षितम् । वरास्तरणसञ्चये घराण्यमूल्यानि आस्तरणानि येषु पर्यड्रेषु तेषां सञ्चये समूहे ॥ ४॥ प्रासादेति । प्रासादापविमानेषु विमानाकारराजगृहेषु । हेमराजतभौमेषु हैमानि राजतानि भौमानि भूतलानि येषु तेषु । वरास्तरणशालिषु प्रासाइवरवर्येषु प्रासाद
For Private And Personal Use Only