________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
वा.रा.भ.
निर्गतस्य । आर्यकः मातामहः । अपिः प्रश्ने॥५॥ आर्यक इति । आर्यकः सकाली किमिति शेपः । प्रवासात इतो निगमादारभ्य आप सुखादा पमित्यनुषक्तापिनान्वयः । एतत्सर्वे मे वक्तुमईसीति योजना ॥६॥७॥ अद्यति अद्यरात्रिः अस्मादहः पूर्वरात्रिः सप्तमी । अतः सप्तरात्रीषितःस०७२
आयकस्ते सुकुशली युधाजिन्मातुलस्तव। प्रवासाच्च सुख पुत्र सर्व मे वक्तुमर्हसि ॥६॥ एवं दृष्टस्तु कैकेय्या प्रिय पार्थिवनन्दनः । आचष्ट भरतः सर्व मात्र राजीवलोचनः ॥ ७॥ अद्य मे सप्तमी रात्रिश्चयुतस्यायेक वेश्मनः। अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥८॥ यन्मे धनं च रत्नं च ददौ राजा परंतपः। परिश्रान्तं पथ्यभवत् ततोऽहं पूर्वमागतः ॥९॥ राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः। यदहं प्रष्टुमिच्छामि तदम्बा वक्तु मर्हति ॥ १०॥ शून्योऽयं शयनीयस्ते पर्यको हेमभूषितः । न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मा ॥११॥ राजा भवति भूयिष्ठमिहाम्बाया निवेशने । तमहं नाद्य पश्यामि द्रष्टमिच्छन्निहागतः ॥ १२॥ पितुर्ग्रहीष्ये चरणों तं ममाख्याहि पृच्छतः । आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ १३ ॥ तं प्रत्युवाच कैकेयी प्रियवद
घोरमप्रियम् । अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ॥ १४॥ पथीत्यनेन न विरोधः ॥ ८॥ यदिति । राजा मातामहः। धनं प्रायुक्ताश्वादि यद्ददौ तत् परिश्रान्तं परिश्रान्तवाइनम् अतएव पथ्यभवत् ॥९॥१०॥
शून्य इति । शून्यः पितृशून्यः । शयनीयः शयनाहः । इक्ष्वाकुजनः दशरथजनः ॥११॥राजेति । भवतीत्यतिकरणं द्रष्टव्यम् । भूयिष्ठं प्राचुर्येण । M॥१२॥ पितुरिति । कोसल्पाया निवेशने भवति किमित्यनुपचनीयम् ॥ १३॥ तमिति । अजानन्तं राजवृत्तान्तमजानन्तम् । प्रियवत् प्रियमिव । Mप्रजानन्ती अप्रियमुवाचेत्यन्वयः । तत्र हेतुः राज्यलोभेन मोहितेति ॥ ११ ॥ Mप्रवासात मातुलगृहोद्देशेन गमनात् ॥ ६ ॥७॥ अद्य मे सप्तमी रात्रिः अस्मादहः पूर्वरात्रिः सप्तमीरात्रिरित्यर्थः । अतः सप्तरात्रोपितः पथीत्यनेन न विरोधः n८॥राजा मे यद्धनं रत्नं च ददौ तत्परिश्रान्तं सत्पथ्यभवत् । मार्ग स्थितम्, ततः कारणात् अहम् इह पूर्वमागत इति सम्बन्धः ॥९॥ तत्र हेतुः-राज वाक्येति ॥ १०॥ शून्यः शयनीयः शयनाईः । इक्ष्वाकुजनः दशरथः ॥ ११ ॥ राजेति । भूयिष्ठं प्राचुर्येण ॥ १२ ॥ १३ ॥ प्रियवत् प्रियमिव ॥ १४॥
For Private And Personal Use Only