________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुदायसमुदायिनोर्भेदविवक्षया जनविशेषणत्वम् ॥ ४२ ॥ ४३ ॥ इतीति । तान्यरिष्टानि प्रेक्ष्य तं सूतमित्येवमुक्त्वेत्यन्वयः ॥ ४४ ॥ तामिति । शून्याः जनरहिताः । शृङ्गाटकवेश्मरथ्याः चतुष्पथगृहवीथयो यस्याम् । रजोरुणद्वारकपाटयन्त्रां रजोभिः अरुणानि मलिनानि द्वारस्थकपाटानां सस्त्रीपुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥ ४३ ॥ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः । तान्यरिष्टान्ययो ध्यायां प्रेक्ष्य राजगृहं ययौ ॥ ४४ ॥ तां शून्यशृङ्गाटकवेश्मरथ्यां रजोरुणद्वारकपाटयन्त्राम् । दृष्ट्वा पुरीमिन्द्रपुर प्रकाशां दुःखेन सम्पूर्णतरो बभूव ॥ ४५ ॥ बहूनि पश्यन् मनसोऽप्रियाणि यान्यन्यदा नास्य पुरे बभ्रुवुः । अवा छिरा दीनमना न हृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ ४६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥
अपश्यंस्तु ततस्तत्र पितरं पितुरालये । जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् । उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमासनम् ॥ २ ॥ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् भरतः प्रतिजग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥ सा तं मूर्द्धन्युपाघ्राय परिष्वज्य यशस्विनम् । अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥ अद्य ते कतिचिद्रात्र्यश्युतस्यार्यकवेश्मनः । अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥ यन्त्राणि दारुबन्धादीनि यस्याम् । संमार्जनाद्यभावादितिभावः ॥ ४५ ॥ बडूनीति । अन्यदा पूर्वकाले । अस्य भरतस्य । यानि अप्रियाणि न बभूवुः तानि मनसोऽप्रियाणि पश्यन् सन् । आषाकशिरा अवनतशिराः । न हृष्टः अहृष्टः महात्मा महाधैर्यः ॥ ४६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामा यणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ॥ १४ ॥ अद्येति । कतिचिदिति प्रभे । पृथइनिपातो वा । च्युतस्य इत्यर्थः ४०-४४ ॥ तामिति । शृङ्गाटकानि चतुष्पथानि । रजोरुणद्वारकपाटयन्त्रां रजसा अरुणानि निरुद्धानि व्याप्तानि द्वारकपाटयन्त्राणि यस्य ताम् ॥ ४५ ॥ ४६ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां एकसप्ततितमस्सर्गः ॥ ७१ ॥ १-४ ॥ अद्येति । कतिचित् कतीत्यर्थः । च्युतस्य निर्गतस्य । आर्यकवेश्मनः। आर्यकः मातामहः ॥ ५ ॥
For Private And Personal Use Only