SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir युक्ताम् । मधुरां रमणीयाम् वाणी कलं यथा भवति तथा व्याहरतां मृगपक्षिणाम् क्रीडामृगशुकसारिकाप्रभृतीनाम् शब्दो न श्रूयते । २७॥ चन्दनागरुसंपृक्तः चन्दनागरुगन्धसंपृक्तः । धूपसंमूच्छितः धूपव्याप्तः । श्रीमान् रमणीयः ॥ २८ ॥ मेरीति । कोणसहितः चन्दनागरुसंप्टक्तो धूपसंमूञ्छितोऽतुलः । प्रवाति पवनः श्रीमान किंनु नाद्य यथापुरम् ॥ २८॥भेरीमृदङ्गवीणानां कोणसङ्घट्टितः पुनः। किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा॥२९॥ अनिष्टानि च पापानि पश्यामि विविधानि च। निमित्तान्यमनोज्ञानि तेन सीदति मे मनः॥ ३०॥ सर्वथा कुशलं मूत दुर्लभं मम बन्धुषु । तथा ह्यसति सम्मोहे हृदयं सीदतीव मे ॥३१॥ विषण्णः श्रान्तहृदयस्त्रस्तस्स लुलितेन्द्रियः। भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ॥ ३२॥ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः। द्वास्स्थैरुत्थाय विजयं दृष्टस्तैः सहितो ययौ ॥३३॥ स त्वनेकाग्रहृदयो दास्स्थं प्रत्यय॑तं जनम् । मृतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ॥ ३४ ॥ किमहं त्वरयानीतः कारणेन विनाऽनघ । अशुभाशङ्कि हृदयं शीलं च पततीव मे ॥ ३५॥ भरीमृदङ्गवीणावादनसाधनभूतदण्डहस्ततलाडल्याद्याइतिजनितः। सदा अदीनगतिरिति पदच्छेदः । पुरा अदीनगतिः शब्दः अद्य पुनः किमर्थ । विरतः उपरतः॥२९॥ अनिष्टानीति । अनिष्टानि अनिष्टसूचकानि । पापानि क्रूराणि "पापं स्यात् क्रूरपाप्मनोः" इति वैजयन्ती । अम । नोज्ञानि दर्शनमात्रेण दुःखकराणि । निमित्तानि अशुभसूचकानि शिवावाशितादीनि ॥३०॥ सर्वथेति । संमोहे संमोहकारणे ॥३१॥ विषण्ण दुःखितः। श्रान्तहृदयः कलुषितमनस्कम लुलितेन्द्रियः क्षुभितबालेन्द्रियः ॥ ३२ ॥ वैजयन्तेन वैजयन्ताख्येन द्वारेण नगरपश्चिमदारेण । अत्र रेइति पागायत्र्यक्षरम् । पञ्चसहस्राणि श्लोकानां गतानि ॥ ३३ ॥ स स्विति । अनेकाग्रहृदयः व्याकुलमनाः। प्रत्यर्य सोपचारं निवर्त्य ॥ ३४॥ किमिति पक्ष्यामीति सम्बन्धः ॥ २६-२८ ॥ मेरीति । कोणसङ्घट्टितः भेर्यादीनो वादनसाधनभूतदण्डाद्याहतिजनितः। सदा अदीनगतिरिति पदच्छेदः ॥ २९ ॥ पापानि राणि । “पापं स्यात्क्रूरपाप्मनोः" इति वैजयन्ती ॥३०-३२ ॥ गायत्र्याः रे इति षष्ठाक्षरं द्वारेण वैजयन्तेनेत्यस्य श्लोकस्य द्वितीयाक्षरेण सङ्ग्रहाति । वैज यन्तेनेत्युक्तिरिन्द्रप्रासादसहशत्वेन निर्मितत्वात् । यद्वा विजयप्रदविन्यासविशेषवत्त्वेन । यद्वा वैजयन्ती पताकाऽस्पास्तीति बैजयन्तम् । अर्जाद्यञ् । यद्वा वैज यन्ताख्येनः ॥ ३३ ॥ प्रत्यय॑ सोपचारं निवर्त्य ॥ ३४ ॥ आनीतः वसिष्ठेन दूतद्वारा आनीत इत्यर्थः ॥ ३५ ॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy