________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पष्टिवर्षाः॥२०॥ नेति । अस्यतां क्षिपताम् । उपासने अभ्यासे "स्यादुपासनमभ्यासः" इत्यमरः । तलनिर्घोषः ज्याकरतलनिर्घोषः॥२१॥ क्षम क्षेमावहम् । बहुपण्यैः समाचिताः समृद्धाः। यद्वा पण्यानां कय्यद्रव्याणां समाचिताः दशभाराः। “आचितो दशभारः स्यात् " इत्यमरः ।
नाराजके जनपदे शरान सततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ २१॥ नाराजके जनपदे वणिजो दूरगामिनः । गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ २२॥ नाराजके जनपदे चरत्येकचरो वशी। भावयन्नात्मनात्मानं यत्र सायगृहो मुनिः ॥ २३ ॥ नाराजके जनपदे योगक्षेमं प्रवर्तते । न चाप्यराजके सेना शत्रून् विषहते युधि ॥ २४ ॥ नाराजके जनपदे हृष्टैः परमवाजिभिः । नराः संयान्ति सहसा रथैश्च परि मण्डिताः ॥२५॥ नाराजके जनपदे नराः शास्त्रविशारदाः । संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥२६॥ नाराजके जनपदे माल्यमोदकदक्षिणाः। देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ॥ २७॥ नाराजके जनपदे
चन्दनागरुरूषिताः । राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥२८॥ बड़वः पण्यसमाचिताः येषां ते तथोक्ताः ॥२२॥ एकोऽसहायश्चरतीत्येकचरः। वशी जितेन्द्रियः । आत्मना अन्तःकरणेन । आत्मानं परमा त्मानम् । भावयन् चिन्तयन् । यत्र सायंगृहः यस्मिन्प्रदेशे सायङ्कालो भवति तत्र गृहं निवासो यस्य तथा सन्न चरति अन्नप्रदात्रभावादिति । भावः॥२३॥ योगक्षेमम् अलब्धलाभो योगः, लब्धस्य परिपालनं क्षेमः, योगश्च क्षेमश्च योगक्षेमम् । द्वन्द्वैकवद्भावः । विषहते जयति ॥२४॥ परिमण्डिताः भूषिताः ॥२५॥ संवदन्तः व्याकुर्वन्तः । वनेषु मुनीनामावासभूतवनेषु ॥ २६॥ कल्प्यन्ते सम्पाद्यन्ते ॥ २७॥ रूषिताः। पुराणकथावदनशीलाः । कथाप्रियः कथा प्रिया येषां तैः जनः, कथाभिर्नानुरज्यन्ते वकृत्रोतृणां स्वास्थ्याभाषादिति भावः ॥१६-२०॥ उपासने अभ्यासे ॥२१॥ बहुपण्यसमाचिताः बहुक्रयाईवस्तुसहिताः ॥२२॥ वशी जितेन्द्रियः। एकचरः यतिः "अष्टौ मास एकाकी पतिश्चरेत्" इति श्रुतेः । आत्मना मनसा यत्र सायं गई यस्मिन् प्रदेशे सायंकालो भवति तत्र गृह निवासो यस्य सः तथा ॥ २३ ॥ योगक्षेमम् अलब्धस्य लाभोयोगः, तस्य पालनं क्षेमः । योगश्च क्षेमश्च योगक्षेमम् ।
For Private And Personal Use Only