________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सहिष्यत इति योजना ॥२॥३॥ सा नूनमिति । तरुणी आरब्धयौवना । श्यामा यौवनमध्यस्था । एतत्पदद्वयोपादाननेषन्यूनयोवनमध्य प्राप्तेत्यवगम्यते । ( पाठभेदः । श्यामा तरुणी यौवनमध्यस्था तरुणी नतु यौवनारम्भस्था तरुणीत्यर्थः ) ॥ ४ ॥ भुक्त्वाशनमिति । सूपदंशान्वितं ।
सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । कथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ ४॥ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ ५॥ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता। कथं क्रव्यादसिंहानां शन्दं श्रोष्यत्यशोभनम् ॥६॥ महेन्द्रध्वजसङ्काशः वनु शेते महाभुजः । भुजं परिघसङ्काश मुपधाय महाबलः॥७॥ पद्मवर्ण सुकेशान्तं पद्मनिश्वासमुत्तमम् । कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥८॥ वज्रसारमयं नूनं हृदयं मे न संशयः । अपश्यन्त्या नतं यदै फलतीदं सहस्रधा ॥ ९॥ यत्त्वयाऽकरुणं
कर्म व्यपोह्य मम बान्धवाः । निरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ १०॥ शोभनव्यञ्जनसहितम् । नैवारं नीवारसम्बन्धिनम् ॥५॥क्रव्यादाः मांसभक्षकाः ॥ ६॥ महेन्द्रध्वजसङ्काश इति । महेन्द्रध्वजोनाम-इन्द्रधनुः कदाचित् ध्वजाकारेण परमाभ्युदयनिमित्ततया प्रतिभातीत्याहुः॥७॥पद्मवर्णमिति । पद्मवणे पद्मपत्रवर्णम् । पद्मनिश्वासं पद्मगन्धिनिश्वासम् ॥८॥ वज्रसारमयमिति । न फलति न स्फुटति । “निफला विशरणे " इति धातुः॥९॥ यत्त्वयेति । त्वया निरस्ताः मम बान्धवाः रामादयः । व्यपोद्या नगरं त्वक्त्वा वने परिधावन्तीति यत् एतत् अकरुणं कर्म, करुणाराहित्येन कृतं कर्मेत्यर्थः ॥१०॥ कतमिति वाक्यशेषः । इत्यब्रवीदिति पूर्वेण सम्बन्धः ॥२॥३॥ सेति । तरुणी अतिक्रान्तकौमारावस्था । श्यामा यौवनमध्यस्था, एतत्पदद्वयोपादानेन किश्चिन्यून यौवनमध्यं प्राप्तेत्यवगम्यते ॥ ४ ॥ भुक्त्वेति । सूपदंशान्वितं शोभनव्यञ्जनसमेतम् । नेवारं नीवारसम्बन्धिनम् ॥५-७॥ पद्मवर्णमिति । पद्मवर्ण पद्मदलवर्णम् । पद्मनिश्वासं पद्ममन्धिनिश्वासम् ॥ ८॥९॥ यत्त्वयेति । मम बान्धवाः रामादयः । व्यपोह्य राज्याझंशयित्वा अनाहत्य वा त्वया निरस्ताः वने परिधावन्तीति यत् तदकरुण कर्म शोचनीयं कर्मत्यर्थः । करुणाराहित्येन त्वया कृतमिति भाषः ॥१०॥
For Private And Personal Use Only