________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Mतो काष्ठसङ्घाटमिति । काष्ठसङ्घाटः काष्ठनिचयः । उशीरैः वीरणतृणमूलैः । “मूलेऽस्योशीरमस्त्रियाम्" इत्यमरः॥ १४॥१५॥ तत्रेति । अचिन्त्याम् अचिन्त्यसौन्दर्याम् । कान्तकरग्रहादावश्यकत्वाच्चेपल्लज्जावतीम् ॥१६॥ पार्श्व इति । तत्रैव वैदेह्याः पावें कठिनकाज कठिनकं कन्दमूलखननसाधनमाय ।
तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम् । शुष्कैशैः समास्तीर्णमुशीरैश्च समावृतम् ॥१४॥ ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान् । चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम् ॥ १५॥ तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् । ईषत्सलज्जमानां तामध्यारोपयत प्लवम् ॥ १६॥ पार्श्वे च तत्र वैदेह्या वसने भूषणानि च । प्लवे कठिनकाजं च रामश्चक्रे सहायुधैः॥ १७॥ आरोप्य प्रथमं सीतां सङ्घाटं परिगृह्य तौ । ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ १८॥ कालिन्दीमध्यमायाता सीता वेनामवन्दत । स्वस्ति देवि तरामि त्वां पारयेन्मे पतिव्रतम् ॥ १९॥ यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च । स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् ॥२०॥ कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः।तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी॥२१॥ ततः प्लवेनांशुमती शीघ्रगामूर्मिमालिनीम् । तीरजैर्बहुभिवृक्षैः सन्तेरुर्यमुना नदीम् ॥ २२॥ ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुना वनात् । श्याम न्यग्रोधमासेदुः शीतलं हरितच्छदम् ॥ २३॥ न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत् ॥२४॥ साग्रं दारु, आजम् अजचर्म पिनद्धं पिटकम् । द्वन्दैकवद्भावः। चक्के स्थापितवानित्यर्थः॥१७॥ आरोप्येति । सझाट पूवम् । यत्तौ प्लवचालने यतमानौ॥१८॥ कालिन्दीमध्यमित्यादि । मे पतिः। व्रतं वनवाससङ्कल्पम् । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण गोसहस्रप्रदानेन सुराघटशतेन च नैवेद्येन । स्वस्ति यथा भवति तथा प्रत्यागते सति गोसहस्रप्रदानेन सुराघटातेन च त्वां यक्ष्य इत्यादियाचमाना तीरं प्राप्तेत्यन्वयः ॥१९-२१॥ तत इति । वृक्षरिति उपलक्षणे तृतीया ॥ २२ ॥ ते तीर्णा इति । यमुनावनात् यमुनातीरखनात् ॥ २३ ॥२४॥ ताविति । काष्ठसङ्घाटं काष्ठनिचयं प्लवं चक्रतुः । उशीरैः नलदैः ॥ १४-१६ ॥ पार्श्व इति । कठिनकाजम् । द्वन्द्वैकवद्भावः । कठिनकं खनित्रम् , आज अजचर्म पिनद्धं पिटकम् ॥१७॥ आरोप्येति । सवाट प्वम् ॥१८॥ पतिः व्रतं चतुर्दशवर्षावधिकं व्रतम् । पारयेत समापयेदित्यर्थः ॥१९-२१॥ वृक्षरुपलक्षिताम् ॥२२-२४॥
For Private And Personal Use Only