________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सानवः स्तान् । दरीकन्दरनिरान् दर्यः पाषाणसंश्लेषस्थानानि कन्दराः गुहाः । निराः विदीर्णपाषाणसन्धयः तान् ॥ १२॥ प्रदृष्टेति । कोयष्टिकाः टिभिकाः। “ कोयष्टिकष्टिविभकः " इत्यमरः ॥४३॥ इति श्रीगोविन्द श्रीरा० पीता भूष. अयोध्याकाण्डव्याख्याने चतुःपञ्चाशः सर्गः ॥५४॥my
प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम् । मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसा श्रमम् ॥ ४३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःपञ्चाशः सर्गः ॥५४॥ उषित्वा रजनी तंत्र राजपुत्रावरिन्दमौ। महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥१॥ तेषां चैवस्वस्त्ययनं महर्षिः स चकार ह । प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात् ॥ २ ॥ ततः प्रचक्रमे वक्तुं वचनं स महामुनिः। भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ ३॥ गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ। कालिन्दीमनुगच्छेतां नदी पश्चान्मुखाश्रिताम् ॥ ४ ॥ अथासाद्य तु कालिन्दी शीघ्रस्रोतसमापगाम् । तस्यास्तीर्थ प्रचरितं पुराणं प्रेक्ष्य
राघवो ॥५॥ तत्र यूयं प्लवं कृत्वा तरतांशुमती नदीम् । ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥६॥ उपित्वेत्यादि ॥१॥ तेपामिति । वेषां प्रस्थातुमुद्युक्तानाम् । अन्वगादिति पाठः । अन्वशादितिपाठे-अनुशिष्टवान् मार्गोपदेशमकरोदित्यर्थः ॥२॥ तदेव विवृणोति-तत इति ॥३॥ गङ्गायमुनयोरिति । प्रथमं गङ्गायमुनयोः सन्धिमासाद्य पश्चात् पश्चान्मुखाश्रितां गङ्गाजलवेगाभिहत्या किंचित्पश्चान्मुख प्रवाई प्राप्तां कालिन्दी नदीम् । अनुगच्छेताम् अनुसृत्य गच्छेतां पश्चिमाभिमुखौ भूत्वा गच्छेतां भवन्तावितिशेषः। (पाठभेदः अभिगच्छेताम् अभि मुखं गच्छेताम्, कालिन्द्या अभिमुखीभूय गच्छेतामित्यर्थः)॥४॥ शीघ्रस्रोतसमित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्तप्रदेश उच्यते। तीर्थम् अवतरणप्रदेशम् । प्रचरितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः । आंशुमतीम् अंशुमतः सूर्यस्यापत्यभूताम् । ततःतरणानन्तरम् । न्यग्रोधं तीरस्थम् । जलप्रवाहाः, प्रस्थाः सानवः तान् । दरीकन्दरनिर्झरान दरी पाषाणनिर्भेदः, कन्दराः गुहाः, निर्झराः घनप्रवाहाः तान् ॥४२॥ कोयष्टिकाटिटिभकः ॥ ४३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः॥ ५४॥ १-३ ॥ गङ्गायमुनयोः सन्धि सङ्गमतीर्थ प्राप्य पश्चान्मुखाश्रिता गगाजलवेगाभिहत्या किचित्पश्चान्मुखं प्राप्ताम् ॥४॥ अथेति । तीर्थम् अवतरणप्रदेशः । प्रचलितं गमनागमनाभ्यामतिक्षुण्णमित्यर्थः ॥५॥ तत्रेति
For Private And Personal Use Only