________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandie
मनसा च ज्ञात्वा प्रत्येकं स्वस्वहृदयेन निश्चित्य वृद्ध नृपं वक्ष्यमाणवचनाई दशरथमूचुः ॥ १९॥२०॥ वृद्धं नृपमिति कविना सूचितमर्थ दर्शयतिअनेकेति। हे पार्थिव ! त्वं जनेकपसाहस्रः सहस्राण्येव साहस्राणि । स्वार्थे अण् । अनेकानि वर्षसाहस्राणि यस्य स तथा । वृद्धोऽसीति विशेषणमहिना अति वृद्धोसीति गम्यते । सःशवृद्धस्त्वं पार्थिवं पृथिवीशासनाई युवराजानं युवराजम् । समासान्तस्यानित्यत्वान्न “राजाहःसखि-" इत्यादिना टच ।
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव । स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥२॥
इच्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महतायान्तं रामं छत्रावृताननम् ॥ २२॥ अभिषिञ्चस्व यथा रामो युवराजो भवति तथाभिषिञ्चेत्यर्थः ॥२१॥ ननु रक्षके मयि विद्यमाने किमर्थ रामाभिषेकोऽपेक्ष्यत इत्याशङ्कायां न हि वयं । रक्षणार्थ तमपेक्षामहे किन्तु सौन्दर्यविशेषानुभवार्थमित्याहुः-इच्छाम इति । इच्छाम इति बहुवचनेन सर्वेपामिच्छावैपम्पाभाव उक्तः । महाबाहुमिति " आयताश्च सुवृत्ताश्च" इत्युक्तरीत्या सहजबाहुसौन्दर्य तत्कालाङ्कुशाकर्षणादिव्यापारविशेषश्वोच्यते । (इच्छाम इत्यादि) इच्छामः अभिषेकपट्ट। बन्धादियुक्ततया स्थितं द्रष्टुमिच्छामः । इच्छामात्रमस्माकम्, कार्यनिर्वहणं भवधीनम् । इच्छामः अस्माकमिच्छा वर्तते 'श्रेयांसि बहुविघ्रानि इत्येवंविधयोऽस्माभिर्लभ्यते किम् । इच्छामः अभिषेकः सिद्धयतु वान वा इच्छा निष्प्रतिबन्धा । सुन्दरवस्तुदर्शने इच्छा प्रवर्त्तते खलु । इच्छामः सर्वप्रकारेण रक्षकत्वादाचा प्रार्थयितुमशक्ता मनसा इच्छामः। भवदभिप्रायज्ञानेन इदानीमिच्छाम इति वदामः। केषांचिदस्ति न केषांचिदिति न,किन्तु सर्वे इच्छामः। हि सर्वलोकप्रसिद्धं खलु । 'जनौषोदुष्टसन्नादो विमानं कम्पयन्निव' इति सर्वजनकोलाहलेन तव गृहं विश्लिष्टबन्धं खलु । अकामयत मेदिनी त्वयि निर्वाहके सत्येव भूमिः स्वयम्बरं कृतवती खलु । त्वयि करग्रहं कुर्वति रामकामना न युक्तेति ध्वन्यते । कामुकीनां न मर्यादा खलु । लोकपा लोपमं विष्णुसदृशम् । अतएव वृतवती भूमिः । मेदिनी मधुकैटभवसावित्रगन्धेनोपड़ता "सर्वगन्धः" इति रामसौगन्ध्येन वासयितुमकामयत कर्पूरचन्द नादिकमिव स्वशेषकोटौ कृतवती । नाथं सौगन्ध्यासौगन्ध्ययोः स्वस्यैव शेषिणो भोग्यतया तद्विप्रवासनानिवर्तनेन स्वशेषरक्षकम् । महाबाहुं बाहु वलस्यालक्ष्या खल्वियम् । 'शक्तस्त्रैलोक्यमप्येकः' इति न केवलं कोसलराज्यं लङ्काराज्यमपि रक्षितुं शक्तिरस्ति । महाबाहुं "आयताश्चेति आजानु इच्छाम इति । विशेषणसामर्थ्यात कृताभिषेकमिति लभ्यते । महता गजेन शत्रुनयाख्येन आयान्तमागच्छन्तम् । छत्रेण असाधारणेन श्वेतच्छत्रेण आवृताननं रामं
News
For Private And Personal Use Only