________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
भावेपि च्छत्रिणो गच्छन्तीतिवद्वयपदेशः। त्रिशकोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया । ननु पूर्ण चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः' इति वक्ष्यमाणरीत्या 1 तत्रैव कदाचित्पुष्ययोगसम्भावनया च पञ्चम्यामभिषेक इतिसिद्धम् । तस्मिन्नेव च निर्गतः तथाच कर्कटकस्थे चन्द्रे कथं बुधसमागमः तस्य सूर्यसमीप नक्षत्राणि गता/षि ग्रहाश्च गततेजसः । विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ १२॥ कालिकानिलवेगेन महोदधिरिवोत्थितः । रामे वनं प्रवजिते नगरं प्रचचाल तत् ॥१३॥ दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः। न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ १४ ॥ अकस्मानागरः सर्वो जनो दैन्यमुपागमत् । आहारे वा विहारे वा न कश्चिदकरोन्मनः॥१५॥ शोकपर्यायसन्तप्तः सततं दीर्घमुच्छसन् । अयोध्यायां जनः सर्वः शुशोच जगती पतिम् ॥ १६॥ बाष्पपर्याकुलमुखो राजमार्गगतो जनः। न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः ॥ १७ ॥ न
वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ १८॥ वर्तित्वात् । उच्यते-प्राप्तिरत्र नैकराशिस्थितिः किंतु क्वचित् प्राप्तिः क्वचिदृष्टिरिति न दोषः, वक्रगत्या समागम इत्यप्याहुः ॥११॥ विशाखाः इक्ष्वाकु देशनक्षत्रम् । सधूमा इत्यनेन भाविराजविपत् सूच्यते ॥ १२॥ कालिकेति । कालिकानिलवेगेन मेघजालयुक्तप्रभानवेगेन। "मेघजाले च कालिका" इत्यमरः । प्रचचाल व्यसनातिशयात्प्रकम्पितमभूत् ॥१३॥ दिश इति । ग्रहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अश्विन्यादि । न किंचित् प्रच काशे सप्तर्षिध्रुवादिकं न प्रचकाश इत्यर्थः।।१४॥अकस्मादिति । अकस्मात् रामप्रवाजनव्यतिरिक्तबन्धुविश्लेषणादिकारणं विनेत्यर्थः ॥१६॥ शोकेति। एव दारुणास्सन्तो व्यवस्थिताः ॥११॥ नक्षत्राणीति । विशाखाः इक्ष्वाकुकुलनक्षत्रं विशाखानक्षत्रादृत्पन्नसूर्यवंशजत्वादिक्ष्याकोरित्याशयः । नक्षत्राणि गता-पि जातानि । ग्रहाश्च विशाखाः विमार्गस्थाश्च सधूमाच अत एव गततेजसः नभसि प्रचकाशिर इत्यनेन राजविपत्सूच्यते ॥ १२ ॥ कालिकानिलवेगेन मेघपट्टि
सहितवायुवेनेन उत्थितो महोदधिरिवाभूदिति सम्बन्धः ॥ १३ ॥ अहः जात्येकवचनम्, नवग्रहा इत्यर्थः । नक्षत्रम् अधिन्यादि न किशन प्रकाशे ॥ १४ ॥ पा अकस्मात अकारणात् ॥ १५ ॥ शोकपर्यायसंतप्तः शोकपरम्परासंतप्त इत्यर्थः ।। १५-१८॥
For Private And Personal Use Only