________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. M2211
www.kobatirth.org
इत्यनुः कर्मप्रवचनीयः । तद्योगान्मामिति द्वीतीया । मद्गुणान् सर्वाननुप्राप्य जात इत्यर्थः । ननु 'मत्तश्च गुणवत्तरः । अपरिमेयैश्च लोके लोकोत्तरैर्गुणैः' इति पूर्वमुक्तम्, कथमिदानीमनुजातो हि मां सर्वेर्गुणैरित्युच्यते पुरन्दरसम इति च । उच्यते - " अन्या मध्यस्थचिन्ता हि विमदभ्यधिकोदया " इतिन्यायेन पौरमुखेन रामस्य सर्वाभ्यधिकगुणतां वक्तुमेवमुक्तमिति ध्येयम् । अतएव वक्ष्यति "बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते " इति ॥ ११ ॥ तमिति । तं स्वगुणतुल्यगुणम् । धर्मभृतां धार्मिकाणां वरं पुरुषपुङ्गवम् । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव स्थितं तद्वदत्युज्ज्वलम् !
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम् । यौवराज्ये नियोक्तास्मि प्रीतः पुरुषपुङ्गवम् ॥ १२ ॥
अनुरूपः स वै नाथो लक्ष्मीवालक्ष्मणाग्रजः । त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ १३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्वा पुष्यनक्षत्रेऽभिषेककरणात् पुष्येण चन्द्रमिवेत्युक्तम् । यौवराज्ये नियोक्तास्मि । यद्रा चन्द्रमिव स्थितं तं वः पुष्येण यौवराज्ये नियोक्तास्मी त्यर्थः ॥ १२ ॥ दशरथवचनं वाल्मीकिस्तत्त्वज्ञतया श्लाघते अनुरूप इति । स रामः अनुरूपः अनुगुणः नाथः, लोकस्येति शेषः । अनुरूपत्वे हेतुः लक्ष्मीवानिति । अपरिच्छिन्नतेजस्क इत्यर्थः । तत्रापि हेतुर्लक्ष्मणाग्रज इति । "लक्ष्मणो लक्ष्मिवर्द्धनः " इत्युक्तम् । यद्वा अनुरूपत्वे हेतुर्लक्ष्मणाग्रज इति । लक्ष्मण इव सर्वत्र स्वाश्रिते प्रेमशालीत्यर्थः । अथवा अनुरूप इत्यादि नित्यानपायिन्या लक्ष्म्या विशिष्टः परिजनपर्यन्तो रामः सर्वस्य निरुपा धिकः शेषी । दशरथस्तु राज्यपालनापाधिकशेषी । वै इति श्रुत्यादिप्रसिद्धिं द्योतयति "दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः" इत्याद्युक्तेः । तस्य निरुपाधिकशेषित्वे निमित्तमाह त्रैलोक्यमिति । त्रयो लोका एव त्रैलोक्यम् । चतुर्वर्णादित्वात्स्वार्थे ष्यञ् । त्रैलोक्यमपि येन नाथेन नाथवत्तरम् अतिशयेन नाथवत् । रामस्य रक्षकत्वावलोकने कियन्मात्रं त्रैलोक्यमिति भातीत्यर्थः । अथवा अनेन श्लोकेन रामस्य परत्वमुच्यते-सः रामः अनु रूपो नाथः सहजशेषी जगतः अन्ये तु कर्मानुगुणतयाँपाधिकाः। अनुकूलं रूपं यस्य सोऽनुरूपः । “समः समविभक्ताङ्गः । चन्द्रकान्ताननम्" इत्याद्युक्त निरुपमसौन्दर्य्यशालिदिव्यमङ्गलविग्रह इत्यर्थः । अनुकूलं स्वरूपं यस्यासावनुरूपः । शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कतया ऽभ्यस्यमाना नन्दरूप इत्यर्थः । " आनन्दो ब्रह्म " इति द्युक्तम् । अनुगतं रूपं यस्यासावनुरूपः, सर्वव्यापीत्यर्थः । अनुरूपः अनुप्रविष्टचराचरादिकशरीरः, सर्व रामस्यातिमानुषशक्तियोगं प्रकटयनि- तमिति । पुष्येण नक्षत्रेण युक्तं चन्द्रमिव प्रकाशमानं तं रामं यौवराज्ये नियोक्तास्मि नियोक्ष्ये ॥ १२ ॥ अनुरूप इति
For Private And Personal Use Only
टी.अ.का. म० २
॥११॥